Brihadāranyaka Upanishad (Sanskrit) — The Upanishads ==================================================== उपनिषद् Translation/edition: Sanskrit text Language: English Read in Plato Scroll: https://plato-scroll.com/s/upan-brihadaranyaka/ This file: https://plato-scroll.com/text/upan-brihadaranyaka-b.txt Other editions of this work: - F. Max Müller (1879–84): https://plato-scroll.com/text/upan-brihadaranyaka.txt Sources and licences: https://plato-scroll.com/attribution.html Numbers in [brackets] are the edition's reference loci (Stephanus, Bekker, book.line, page...). Superscript numerals refer to the Notes at the end. ## First Adhyāya [1.1] ॐ शान्तिः शान्तिः शान्तिः ॥ [1.2] अथ प्रथमोऽध्यायः । [1.3] प्रथमं ब्राह्मणम् । [1.4] उषा वा अश्वस्य मेध्यस्य शिरः । [1.5] सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । [1.6] द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि । [1.7] ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । [1.8] उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः । [1.9] यद्विजृम्भते तद्विद्योतते । [1.10] यद्विधूनुते तत्स्तनयति । [1.11] यन्मेहति तद्वर्षति । [1.12] वागेवास्य वाक् ॥ बृह.१,१.१ ॥ (शतपथब्राह्मणम् १०.६.४.१ ) [1.13] अहर्वा अश्वं पुरस्तान्महिमान्वजायत । [1.14] तस्य पूर्वे समुद्रे योनिः । [1.15] रात्रिरेनं पश्चान्महिमान्वजायत । [1.16] तस्यापरे समुद्रे योनिर् । [1.17] एतौ वा अश्वं महिमानावभितः सम्बभूवतुः । [1.18] हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् । [1.19] समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ बृह.१,१.२ ॥ [1.20] नैवेह किं चनाग्र आसीत् । [1.21] मृत्युनैवेदमावृतमासीदशनायया । [1.22] अशनाया हि मृत्युः । [1.23] तन्मनोऽकुरुतात्मन्वी स्यामिति । [1.24] सोऽर्चन्नचरत् । [1.25] तस्यार्चत आपोऽजायन्त । [1.26] अर्चते वै मे कमभूदिति । [1.27] तदेवार्क्यस्यार्कत्वम् । [1.28] कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ बृह. १,२.१ ॥ [1.29] आपो वा अर्कः । [1.30] तद्यदपां शर आसीत्तत्समहन्यत । [1.31] सा पृथिव्यभवत् । [1.32] तस्यामश्राम्यत् । [1.33] तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ बृह.१,२.२ ॥ [1.34] स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् । [1.35] स एष प्राणस्त्रेधाविहितः । [1.36] तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । [1.37] अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ । [1.38] दक्षिणा चोदीची च पार्श्वे । [1.39] द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः । [1.40] स एषोऽप्सु प्रतिष्ठितः । [1.41] यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ बृह. १,२.३ ॥ [1.42] सोऽकामयत द्वितीयो म आत्मा जायेतेति । [1.43] स मनसा वाचं मिथुनं समभवदशनाया मृत्युः । [1.44] तद्यद्रेत आसीत्स संवत्सरोऽभवत् । [1.45] न ह पुरा ततः संवत्सर आस । [1.46] तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः । [1.47] तमेतावतः कालस्य परस्तादसृजत । [1.48] तं जातमभिव्याददात् । [1.49] स भाणकरोत् । [1.50] सैव वागभवत् ॥ बृह. १,२.४ ॥ [1.51] स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति । [1.52] स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् । [1.53] स यद्यदेवासृजत तत्तदत्तुमध्रियत । [1.54] सर्वं वा अत्तीति तददितेरदितित्वम् । [1.55] सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ बृह. १,२.५ ॥ [1.56] सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । [1.57] सोऽश्राम्यत् । [1.58] स तपोऽतप्यत । [1.59] तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । [1.60] प्राणा वै यशो वीर्यम् । [1.61] तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत । [1.62] तस्य शरीर एव मन आसीत् ॥ बृह. १,२.६ ॥ [1.63] सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति । [1.64] ततोऽश्वः समभवत् । [1.65] यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । [1.66] एष ह वा अश्वमेधं वेद य एनमेवं वेद । [1.67] तमनवरुध्यैवामन्यत । [1.68] तं संवत्सरस्य परस्तादात्मन आलभत । [1.69] पशून् देवताभ्यः प्रत्यौहत् । [1.70] तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते । [1.71] एष वा अश्वमेधो य एष तपति । [1.72] तस्य संवत्सर आत्मा । [1.73] अयमग्निरर्कः । [1.74] तस्येमे लोका आत्मानः । [1.75] तावेतावर्काश्वमेधौ । [1.76] सो पुनरेकैव देवता भवति मृत्युरेव । [1.77] अप पुनर्मृत्युं जयति । [1.78] नैनं मृत्युराप्नोति । [1.79] मृत्युरस्यात्मा भवति । [1.80] सर्वमायुरेति । [1.81] एतासां देवतानामेको भवति ॥ बृह. १,२.७ ॥ [1.82] (उद्गीथब्राह्मणम्। वैराजब्राह्मणं वा।) [1.83] द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः । [1.84] त एषु लोकेष्वस्पर्धन्त । [1.85] ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ बृह. १,३.१ ॥ [1.86] ते ह वाचमूचुस्त्वं न उद्गायेति । [1.87] तथेति तेभ्यो वागुदगायत् । [1.88] यो वाचि भोगस्तं देवेभ्य आगायत् । [1.89] यत्कल्याणं वदति तदात्मने । [1.90] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.91] तमभिद्रुत्य पाप्मनाविध्यन् । [1.92] स यः स पाप्मा यदेवेदमप्रतिरूपं वदति । [1.93] स एव स पाप्मा ॥ बृह. १,३.२ ॥ [1.94] अथ ह प्राणमूचुस्त्वं न उद्गायेति । [1.95] तथेति तेभ्यः प्राण उदगायत् । [1.96] यः प्राणे भोगस्तं देवेभ्य आगायत् । [1.97] यत्कल्याणं जिघ्रति तदात्मने । [1.98] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.99] तमभिद्रुत्य पाप्मनाविध्यन् । [1.100] स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति । [1.101] स एव स पाप्मा ॥ बृह. १,३.३ ॥ [1.102] अथ ह चक्षुरूचुस्त्वं न उद्गायेति । [1.103] तथेति तेभ्यश्चक्षुरुदगायत् । [1.104] यश्चक्षुषि भोगस्तं देवेभ्य आगायत् । [1.105] यत्कल्याणं पश्यति तदात्मने । [1.106] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.107] तमभिद्रुत्य पाप्मनाविध्यन् । [1.108] स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति । [1.109] स एव स पाप्मा ॥ बृह. १,३.४ ॥ [1.110] अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । [1.111] तथेति तेभ्यः श्रोत्रमुदगायत् । [1.112] यः श्रोत्रे भोगस्तं देवेभ्य आगायत् । [1.113] यत्कल्याणं शृणोति तदात्मने । [1.114] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.115] तमभिद्रुत्य पाप्मनाविध्यन् । [1.116] स यः स पाप्मा । [1.117] यदेवेदमप्रतिरूपं शृणोति । [1.118] स एव स पाप्मा ॥ बृह. १,३.५ ॥ [1.119] अथ ह मन ऊचुस्त्वं न उद्गायेति । [1.120] तथेति तेभ्यो मन उदगायत् । [1.121] यो मनसि भोगस्तं देवेभ्य आगायत् । [1.122] यत्कल्याणं संकल्पयति तदात्मने । [1.123] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.124] तमभिद्रुत्य पाप्मनाविध्यन् । [1.125] स यः स पाप्मा । [1.126] यदेवेदमप्रतिरूपं संकल्पयति । [1.127] स एव स पाप्मा । [1.128] एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । [1.129] एवमेनाः पाप्मनाविध्यन् ॥ बृह. १,३.६ ॥ [1.130] अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । [1.131] तथेति तेभ्य एष प्राण उदगायत् । [1.132] तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति । [1.133] तमभिद्रुत्य पाप्मनाविव्यत्सन् । [1.134] स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः । [1.135] ततो देवा अभवन्, परासुरा । [1.136] भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ बृह. १,३.७ ॥ [1.137] ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति । [1.138] अयमास्येऽन्तरिति । [1.139] सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ बृह. १,३.८ ॥ [1.140] सा वा एषा देवता दूर्नाम । [1.141] दूरं ह्यस्या मृत्युर् । [1.142] दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ बृह. १,३.९ ॥ [1.143] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार । [1.144] तदासां पाप्मनो विन्यदधात् । [1.145] तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ बृह. १,३.१० ॥ [1.146] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ बृह. १,३.११ ॥ [1.147] सा वै वाचमेव प्रथमामत्यवहत् । [1.148] सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् । [1.149] सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ बृह. १,३.१२ ॥ [1.150] अथ प्राणमत्यवहत् । [1.151] स यदा मृत्युमत्यमुच्यत स वायुरभवत् । [1.152] सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ बृह. १,३.१३ ॥ [1.153] अथ चक्षुरत्यवहत् । [1.154] तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् । [1.155] सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ बृह. १,३.१४ ॥ [1.156] अथ श्रोत्रमत्यवहत् । [1.157] तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् । [1.158] ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ बृह. १,३.१५ ॥ [1.159] अथ मनोऽत्यवहत् । [1.160] तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् । [1.161] सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । [1.162] एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ बृह. १,३.१६ ॥ [1.163] अथात्मनेऽन्नाद्यमागायत् । [1.164] यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते । [1.165] इह प्रतितिष्ठति ॥ बृह. १,३.१७ ॥ [1.166] ते देवा अब्रुवन् । [1.167] एतावद्वा इदं सर्वं यदन्नम् । [1.168] तदात्मन आगासीः । [1.169] अनु नोऽस्मिन्नन्न आभजस्वेति । [1.170] ते वै माभिसंविशतेति । [1.171] तथेति तं समन्तं परिण्यविशन्त । [1.172] तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति । [1.173] एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद । [1.174] य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति । [1.175] अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ बृह. १,३.१८ ॥ [1.176] सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः । [1.177] प्राणो वा अङ्गानां रसः । [1.178] प्राणो हि वा अङ्गानां रसः । [1.179] तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति । [1.180] एष हि वा अङ्गानां रसः ॥ बृह. १,३.१९ ॥ [1.181] एष उ एव बृहस्पतिः । [1.182] वाग्वै बृहती । [1.183] तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ बृह. १,३.२० ॥ [1.184] एष उ एव ब्रह्मणस्पतिः । [1.185] वाग्वै ब्रह्म । [1.186] तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ बृह. १,३.२१ ॥ [1.187] एष उ एव साम । [1.188] वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । [1.189] यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम । [1.190] अश्नुते साम्नः सायुज्यं सलोकताम् । [1.191] य एवमेतत्साम वेद ॥ बृह. १,३.२२ ॥ [1.192] एष उ वा उद्गीथः । [1.193] प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् । [1.194] वागेव गीथा । [1.195] उच्च गीथा चेति । [1.196] स उद्गीथः ॥ बृह. १,३.२३ ॥ [1.197] तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच । [1.198] अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति । [1.199] वाचा च ह्येव स प्राणेन चोदगायदिति ॥ बृह. १,३.२४ ॥ [1.200] तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । [1.201] तस्य वै स्वर एव स्वम् । [1.202] तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत । [1.203] तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् । [1.204] तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव । [1.205] अथो यस्य स्वं भवति । [1.206] भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ बृह. १,३.२५ ॥ [1.207] तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । [1.208] तस्य वै स्वर एव सुवर्णम् । [1.209] भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ बृह. १,३.२६ ॥ [1.210] तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । [1.211] तस्य वै वागेव प्रतिष्ठा । [1.212] वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते । [1.213] अन्न इत्यु हैक आहुः ॥ बृह. १,३.२७ ॥ [1.214] अथातः पवमानानामेवाभ्यारोहः । [1.215] स वै खलु प्रस्तोता साम प्रस्तौति । [1.216] स यत्र प्रस्तुयात्तदेतानि जपेत् । [1.217] असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति । [1.218] स यदाहासतो मा सद्गमयेति । [1.219] मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । [1.220] तमसो मा ज्योतिर्गमयेति । [1.221] मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । [1.222] मृत्योर्मामृतं गमयेति । [1.223] नात्र तिरोहितमिवास्ति । [1.224] अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् । [1.225] तस्मादु तेषु वरं वृणीत । [1.226] यं कामं कामयेत्तम् । [1.227] स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति । [1.228] तद्धैतल्लोकजिदेव । [1.229] न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ बृह. १,३.२८ ॥ [1.230] (पुरुषविधब्राह्मणम् /आत्मब्राह्मणम् /सृष्टिब्राह्मणम् ) [1.231] आत्मैवेदमग्र आसीत्पुरुषविधः । [1.232] सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । [1.233] सोऽहमस्मीत्यग्रे व्याहरत् । [1.234] ततोऽहंनामाभवत् । [1.235] तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति । [1.236] स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः । [1.237] ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ बृह. १,४.१ ॥ [1.238] सोऽबिभेत्तस्मादेकाकी बिभेति । [1.239] स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । [1.240] तत एवास्य भयं वीयाय । [1.241] कस्माद्ध्यभेष्यत् । [1.242] द्वितीयाद्वै भयं भवति ॥ बृह. १,४.२ ॥ [1.243] स वै नैव रेमे । [1.244] तस्मादेकाकी न रमते । [1.245] स द्वितीयमैच्छत् । [1.246] स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । [1.247] स इममेवात्मानं द्वेधापातयत् । [1.248] ततः पतिश्च पत्नी चाभवताम् । [1.249] तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः । [1.250] तस्मादयमाकाशः स्त्रिया पूर्यत एव । [1.251] तां समभवत् । [1.252] ततो मनुष्या अजायन्त ॥ बृह. १,४.३ ॥ [1.253] सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति । [1.254] हन्त तिरोऽसानीति । [1.255] सा गौरभवद्वृषभ इतरः । [1.256] तां समेवाभवत् । [1.257] ततो गावोऽजायन्त । [1.258] वडवेतराभवदश्ववृष इतरः । [1.259] गर्दभीतरा गर्दभ इतरः । [1.260] तां समेवाभवत् । [1.261] तत एकशफमजायत । [1.262] अजेतराभवद्बस्त इतरः । [1.263] अविरितरा मेष इतरः । [1.264] तां समेवाभवत् । [1.265] ततोऽजावयो ऽजायन्त । [1.266] एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ बृह. १,४.४ ॥ [1.267] सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति । [1.268] ततः सृष्टिरभवत् । [1.269] सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.५ ॥ [1.270] अथेत्यभ्यमन्थत् । [1.271] स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । [1.272] तस्मादेतदुभयमलोमकमन्तरतः । [1.273] अलोमका हि योनिरन्तरतः । [1.274] तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः । [1.275] एष उ ह्येव सर्वे देवाः । [1.276] अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत । [1.277] तदु सोम । [1.278] एतावद्वा इदं सर्वमन्नं चैवान्नादश्च । [1.279] सोम एवान्नमग्निरन्नादः । [1.280] सैषा ब्रह्मणोऽतिसृष्टिः । [1.281] यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् । [1.282] अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.६ ॥ [1.283] तद्धेदं तर्ह्यव्याकृतमासीत् । [1.284] तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति । [1.285] तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति । [1.286] स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये । [1.287] तं न पश्यन्ति । [1.288] अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति । [1.289] वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः । [1.290] तान्यस्यैतानि कर्मनामान्येव । [1.291] स योऽत एकैकमुपास्ते न स वेद । [1.292] अकृत्स्नो ह्येषोऽत एकैकेन भवति । [1.293] आत्मेत्येवोपासीत । [1.294] अत्र ह्येते सर्व एकं भवन्ति । [1.295] तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा । [1.296] अनेन ह्येतत्सर्वं वेद । [1.297] यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ बृह. १,४.७ ॥ [1.298] तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । [1.299] स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् । [1.300] आत्मानमेव प्रियमुपासीत । [1.301] स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ बृह. १,४.८ ॥ [1.302] तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । [1.303] किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ बृह. १,४.९ ॥ [1.304] ब्रह्म वा इदमग्र आसीत् । [1.305] तदात्मानमेवावेत् । [1.306] अहं ब्रह्मास्मीति । [1.307] तस्मात्तत्सर्वमभवत् । [1.308] तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् । [1.309] तथर्षीनाम् । [1.310] तथा मनुष्याणाम् । [1.311] तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । [1.312] तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । [1.313] तस्य ह न देवाश्चनाभूत्या ईशते । [1.314] आत्मा ह्येषां स भवति । [1.315] अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । [1.316] यथा पशुरेवं स देवानाम् । [1.317] यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति । [1.318] एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु । [1.319] तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ बृह. १,४.१० ॥ [1.320] ब्रह्म वा इदमग्र आसीदेकमेव । [1.321] तदेकं सन्न व्यभवत् । [1.322] तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । [1.323] तस्मात्क्षत्रात्परं नास्ति । [1.324] तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये । [1.325] क्षत्र एव तद्यशो दधाति । [1.326] सैषा क्षत्रस्य योनिर्यद्ब्रह्म । [1.327] तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । [1.328] य उ एनं हिनस्ति स्वां स योनिमृच्छति । [1.329] स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ बृह. १,४.११ ॥ [1.330] स नैव व्यभवत् । [1.331] स विशमसृजत । [1.332] यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ बृह. १,४.१२ ॥ [1.333] स नैव व्यभवत् । [1.334] स शौद्रं वर्णमसृजत पूषणम् । [1.335] इयं वै पूषा । [1.336] इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ बृह. १,४.१३ ॥ [1.337] स नैव व्यभवत् । [1.338] तच्छ्रेयो रूपमत्यसृजत धर्मम् । [1.339] तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः । [1.340] तस्माद्धर्मात्परं नास्ति । [1.341] अथो अबलीयान् बलीयांसमाशंसते धर्मेण । [1.342] यथा राज्ञैवम् । [1.343] यो वै स धर्मः सत्यं वै तत् । [1.344] तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति । [1.345] धर्मं वा वदन्तं सत्यं वदतीति । [1.346] एतद्ध्येवैतदुभयं भवति ॥ बृह. १,४.१४ ॥ [1.347] तदेतद्ब्रह्म क्षत्रं विट्शूद्रः । [1.348] तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः । [1.349] तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु । [1.350] एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । [1.351] अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् । [1.352] यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव । [1.353] आत्मानमेव लोकमुपासीत । [1.354] स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । [1.355] अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ बृह. १,४.१५ ॥ [1.356] अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । [1.357] स यज्जुहोति यद्यजते तेन देवानां लोकः । [1.358] अथ यदनुब्रूते तेन ऋषीणाम् । [1.359] अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् । [1.360] अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् । [1.361] अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् । [1.362] यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः । [1.363] यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् । [1.364] एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । [1.365] तद्वा एतद्विदितं मीमांसितम् ॥ बृह. १,४.१६ ॥ [1.366] आत्मैवेदमग्र आसीदेक एव । [1.367] सोऽकामयत जाया मे स्यादथ प्रजायेय । [1.368] अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । [1.369] एतावान् वै कामः । [1.370] नेच्छंश्चनातो भूयो विन्देत् । [1.371] तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति । [1.372] स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते । [1.373] तस्यो कृत्स्नता । [1.374] मन एवास्यात्मा । [1.375] वाग्जाया । [1.376] प्राणः प्रजा । [1.377] चक्षुर्मानुषं वित्तम् । [1.378] चक्षुषा हि तद्विन्दते । [1.379] श्रोत्रं दैवम् । [1.380] श्रोत्रेण हि तच्छृणोति । [1.381] आत्मैवास्य कर्म । [1.382] आत्मना हि कर्म करोति । [1.383] स एष पाङ्क्तो यज्ञः । [1.384] पाङ्क्तः पशुः । [1.385] पाङ्क्तः पुरुषः । [1.386] पाङ्क्तमिदं सर्वं यदिदं किञ्च । [1.387] तदिदं सर्वमाप्नोति य एवं वेद ॥ बृह. १,४.१७ ॥ [1.388] (सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम्) [1.389] यत्सप्तान्नानि मेधया तपसाजनयत्पिता । [1.390] एकमस्य साधारणं द्वे देवानभाजयत् । [1.391] त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । [1.392] तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । [1.393] कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा । [1.394] यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन । [1.395] स देवानपिगच्छति स ऊऋजमुपजीवति । [1.396] इति श्लोकाः ॥ बृह. १,५.१ ॥ [1.397] यत्सप्तान्नानि मेधया तपसाजनयत्पितेति । [1.398] मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति । [1.399] इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । [1.400] स य एतदुपास्ते न स पाप्मनो व्यावर्तते । [1.401] मिश्रं ह्येतत् । [1.402] द्वे देवानभाजयदिति । [1.403] हुतं च प्रहुतं च । [1.404] तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति । [1.405] अथो आहुर्दर्शपूर्णमासाविति । [1.406] तस्मान्नेष्टियाजुकः स्यात् । [1.407] पशुभ्य एकं प्रायच्छदिति । [1.408] तत्पयः । [1.409] पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । [1.410] तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । [1.411] अथ वत्सं जातमाहुस्तृणादिति । [1.412] तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । [1.413] पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । [1.414] तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति । [1.415] न तथा विद्यात् । [1.416] यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् । [1.417] सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । [1.418] कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति । [1.419] पुरुषो वा अक्षितिः । [1.420] स हीदमन्नं पुनः पुनर्जनयते । [1.421] यो वैतामक्षितिं वेदेति । [1.422] पुरुषो वा अक्षितिः । [1.423] स हीदमन्नं धियाधिया जनयते कर्मभिः । [1.424] यद्धैतन्न कुर्यात्क्षीयेत ह । [1.425] सोऽन्नमत्ति प्रतीकेनेति । [1.426] मुखं प्रतीकं मुखेनेत्येतत् । [1.427] स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ बृह. १,५.२ ॥ [1.428] त्रीण्यात्मनेऽकुरुतेति [1.429] मनो वाचं प्राणं तान्यात्मनेऽकुरुत । [1.430] अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । [1.431] कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । [1.432] तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । [1.433] यः कश्च शब्दो वागेव सा । [1.434] एषा ह्यन्तं आयत्तैषा हि न । [1.435] प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव । [1.436] एतन्मयो वा अयमात्मा । [1.437] वाङ्मयो मनोमयः प्राणमयः ॥ बृह. १,५.३ ॥ [1.438] त्रयो लोका एत एव । [1.439] वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ बृह. १,५.४ ॥ [1.440] त्रयो वेदा एत एव । [1.441] वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ बृह. १,५.५ ॥ [1.442] देवा पितरो मनुष्या एत एव । [1.443] वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १,५.६ ॥ [1.444] पिता माता प्रजैत एव । [1.445] मन एव पिता वाङ्माता प्राणः प्रजा ॥ १,५.७ ॥ [1.446] विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । [1.447] यत्किञ्च विज्ञातं वाचस्तद्रूपम् । [1.448] वाग्घि विज्ञाता । [1.449] वागेनं तद्भूत्वावति ॥ बृह. १,५.८ ॥ [1.450] यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् । [1.451] मनो हि विजिज्ञास्यम् । [1.452] मन एनं तद्भूत्वावति ॥ १,५.९ ॥ [1.453] यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् । [1.454] प्राणो ह्यविज्ञातः । [1.455] प्राण एनं तद्भूत्वावति ॥ १,५.१० ॥ [1.456] तस्यै वाचः पृथिवी शरीरम् । [1.457] ज्योतीरूपमयमग्निः । [1.458] तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ बृह. १,५.११ ॥ [1.459] अथैतस्य मनसो द्यौः शरीरम् । [1.460] ज्योतीरूपमसावादित्यः । [1.461] तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः । [1.462] तौ मिथुनं समैताम् । [1.463] ततः प्राणोऽजायत । [1.464] स इन्द्रः । [1.465] स एषोऽसपत्नः । [1.466] द्वितीयो वै सपत्नः । [1.467] नास्य सपत्नो भवति य एवं वेद ॥ बृह. १,५.१२ ॥ [1.468] अथैतस्य प्राणस्यापः शरीरम् । [1.469] ज्योतीरूपमसौ चन्द्रः । [1.470] तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । [1.471] त एते सर्व एव समाः सर्वेऽनन्ताः । [1.472] स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति । [1.473] अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ बृह. १,५.१३ ॥ [1.474] स एष संवत्सरः प्रजापतिष्षोडशकलः । [1.475] तस्य रात्रय एव पञ्चदश कला । [1.476] ध्रुवैवास्य षोडशी कला । [1.477] स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते । [1.478] सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । [1.479] तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १,५.१४ ॥ [1.480] यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषः । [1.481] तस्य वित्तमेव पञ्चदश कलाः । [1.482] आत्मैवास्य षोडशी कला । [1.483] स वित्तेनैवा च पूर्यतेऽप च क्षीयते । [1.484] तदेतन्नभ्यं यदयमात्मा । [1.485] प्रधिर्वित्तम् । [1.486] तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ बृह. १,५.१५ ॥ [1.487] अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति । [1.488] सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । [1.489] कर्मणा पितृलोकः । [1.490] विद्यया देवलोकः । [1.491] देवलोको वै लोकानां श्रेष्ठः । [1.492] तस्माद्विद्यां प्रशंसन्ति ॥ बृह. १,५.१६ ॥ [1.493] अथातः सम्प्रत्तिः । [1.494] यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । [1.495] स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति । [1.496] यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । [1.497] ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता । [1.498] ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता । [1.499] एतावद्वा इदं सर्वम् । [1.500] एतन्मा सर्वं सन्नयमितो भुनजदिति । [1.501] तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः । [1.502] तस्मादेनमनुशासति । [1.503] स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति । [1.504] स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम । [1.505] स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति । [1.506] अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ बृह. १,५.१७ ॥ [1.507] पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । [1.508] सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १,५.१८ ॥ [1.509] दिवश्चैनमादित्याच्च दैवं मन आविशति । [1.510] तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १,५.१९ ॥ [1.511] अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । [1.512] स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । [1.513] स एष एवंवित्सर्वेषां भूतानामात्मा भवति । [1.514] यथैषा देवतैवं सः । [1.515] यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति । [1.516] यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । [1.517] पुण्यमेवामुं गच्छति । [1.518] न ह वै देवान् पापं गच्छति ॥ बृह. १,५.२० ॥ [1.519] अथातो व्रतमीमांसा । [1.520] प्रजापतिर्ह कर्माणि ससृजे । [1.521] तानि सृष्टान्यन्योऽन्येनास्पर्धन्त । [1.522] वदिष्याम्येवाहमिति वाग्दध्रे । [1.523] द्रक्ष्याम्यहमिति चक्षुः । [1.524] श्रोष्याम्यहमिति श्रोत्रम् । [1.525] एवमन्यानि कर्माणि यथाकर्मम् । [1.526] तानि मृत्युः श्रमो भूत्वोपयेमे । [1.527] तान्याप्नोत् । [1.528] तान्याप्त्वा मृत्युरवारुन्ध । [1.529] तस्माच्छ्राम्यत्येव वाक् । [1.530] श्राम्यति चक्षुः । [1.531] श्राम्यति श्रोत्रम् । [1.532] अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः । [1.533] तानि ज्ञातुं दध्रिरे । [1.534] अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति । [1.535] हन्तास्यैव सर्वे रूपं भवामेति । [1.536] त एतस्यैव सर्वे रूपमभवन् । [1.537] तस्मादेत एतेनाख्यायन्ते प्राणा इति । [1.538] तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद । [1.539] य उ हैवंविदा स्पर्धतेऽनुशुष्यति । [1.540] अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ बृह. १,५.२१ ॥ [1.541] अथाधिदेवतं [1.542] ज्वलिष्याम्येवाहमित्यग्निर्दध्रे । [1.543] तप्स्याम्यहमित्यादित्यः । [1.544] भास्याम्यहमिति चन्द्रमाः । [1.545] एवमन्या देवता यथादेवतम् । [1.546] स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः । [1.547] म्लोचन्ति ह्यन्या देवता न वायुः । [1.548] सैषानस्तमिता देवता यद्वायुः ॥ बृह. १,५.२२ ॥ [1.549] अथैष श्लोको भवति [1.550] यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । [1.551] प्राणाद्वा एष उदेति प्राणेऽस्तमेति । [1.552] तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । [1.553] यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । [1.554] तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च । [1.555] नेन्मा पाप्मा मृत्युराप्नवदिति । [1.556] यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ बृह. १,५.२३ ॥ [1.557] (त्र्यन्नब्राह्मणं वा अविद्याविषयसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम्) [1.558] त्रयं वा इदं नाम रूपं कर्म । [1.559] तेषां नाम्नां वागित्येतदेषामुक्थम् । [1.560] अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । [1.561] एतदेषां साम । [1.562] एतद्धि सर्वैर्नामभिः समम् । [1.563] एतदेषां ब्रह्म । [1.564] एतद्धि सर्वाणि नामानि बिभर्ति ॥ १,६.१ ॥ [1.565] अथ रूपाणां चक्षुरित्येतदेषामुक्थम् । [1.566] अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । [1.567] एतदेषां साम । [1.568] एतद्धि सर्वै रूपैः समम् । [1.569] एतदेषां ब्रह्म । [1.570] एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ बृह. १,६.२ ॥ [1.571] अथ कर्मणामात्मेत्येतदेषामुक्थम् । [1.572] अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति । [1.573] एतदेषां साम । [1.574] एतद्धि सर्वैः कर्मभिः समम् । [1.575] एतदेषां ब्रह्म । [1.576] एतद्धि सर्वाणि कर्माणि बिभर्ति । [1.577] तदेतत्त्रयं सदेकमयमात्मा । [1.578] आत्मो एकः सन्नेतत्त्रयम् । [1.579] तदेतदमृतं सत्येन छन्नम् । [1.580] प्राणो वा अमृतम् । [1.581] नामरूपे सत्यम् । [1.582] ताभ्यामयं प्राणश्छन्नः ॥ १,६.३ ॥ [1.583] इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥ ## Second Adhyāya [2.1] द्वितीयोऽध्यायः । [2.2] प्रथमं ब्राह्मणम् [2.3] (अजातशत्रुब्राह्मणं वा पर्यंकविद्याब्राह्मणम्) [2.4] दृप्तबालाकिर्हानूचानो गार्ग्य आस । [2.5] स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति । [2.6] स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ बृह. २,१.१ ॥ [2.7] स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । [2.8] स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः । [2.9] अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति । [2.10] स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २,१.२ ॥ [2.11] स होवाच गार्ग्यः य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । [2.12] स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । [2.13] बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति । [2.14] स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति । [2.15] नास्यान्नं क्षीयते ॥ बृह. २,१.३ ॥ [2.16] स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । [2.17] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.18] तेजस्वीति वा अहमेतमुपास इति । [2.19] स य एतमेवमुपास्ते तेजस्वी ह भवति । [2.20] तेजस्विनी हास्य प्रजा भवति ॥ २,१.४ ॥ [2.21] स होवाच गार्ग्यः य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । [2.22] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.23] पूर्णमप्रवर्तीति वा अहमेतमुपास इति । [2.24] स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ बृह. २,१.५ ॥ [2.25] स होवाच गार्ग्यः य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । [2.26] स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । [2.27] इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । [2.28] स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ २,१.६ ॥ [2.29] स होवाच गार्ग्यः य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । [2.30] स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । [2.31] विषासहिरिति वा अहमेतमुपास इति । [2.32] स य एतमेवमुपास्ते विषासहिर्ह भवति । [2.33] विषासहिर्हास्य प्रजा भवति ॥ बृह. २,१.७ ॥ [2.34] स होवाच गार्ग्यः य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । [2.35] स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । [2.36] प्रतिरूप इति वा अहमेतमुपास इति । [2.37] स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् । [2.38] अथो प्रतिरुपोऽस्माज्जायते ॥ २,१.८ ॥ [2.39] स होवाच गार्ग्यः य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । [2.40] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.41] रोचिष्णुरिति वा अहमेतमुपास इति । [2.42] स य एतमेवमुपास्ते रोचिष्णुर्ह भवति । [2.43] रोचिष्णुर्हास्य प्रजा भवति । [2.44] अथो यैः संनिगच्छति । [2.45] सर्वांस्तानतिरोचते ॥ बृह. २,१.९ ॥ [2.46] स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । [2.47] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.48] असुरिति वा अहमेतमुपास इति । [2.49] स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति । [2.50] नैनं पुरा कालात्प्राणो जहाति ॥ २,१.१० ॥ [2.51] स होवाच गार्ग्यः य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । [2.52] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.53] द्वितीयोऽनपग इति वा अहमेतमुपास इति । [2.54] स य एतमेवमुपास्ते द्वितीयवान् ह भवति । [2.55] नास्माद्गणश्छिद्यते ॥ बृह. २,१.११ ॥ [2.56] स होवाच गार्ग्यः य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति । [2.57] स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः । [2.58] मृत्युरिति वा अहमेतमुपास इति । [2.59] स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति । [2.60] नैनं पुरा कालान्मृत्युरागच्छति ॥ २,१.१२ ॥ [2.61] स होवाच गार्ग्यः य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । [2.62] स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः । [2.63] आत्मन्वीति वा अहमेतमुपास इति । [2.64] स य एतमेवमुपास्त आत्मन्वी ह भवति । [2.65] आत्मन्विनी हास्य प्रजा भवति । [2.66] स ह तूष्णीमास गार्ग्यः ॥ बृह. २,१.१३ ॥ [2.67] स होवाचाजातशत्रुः एतावन्नू३ इति । [2.68] एतावद्धीति । [2.69] नैतावता विदितं भवतीति । [2.70] स होवाच गार्ग्यः उप त्वायानीति ॥ २,१.१४ ॥ [2.71] स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति । [2.72] व्येव त्वा ज्ञपयिष्यामीति । [2.73] तं पाणावादायोत्तस्थौ । [2.74] तौ ह पुरुषं सुप्तमाजग्मतुः । [2.75] तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति । [2.76] स नोत्तस्थौ । [2.77] तं पाणिनापेषं बोधयां चकार । [2.78] स होत्तस्थौ ॥ बृह. २,१.१५ ॥ [2.79] स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति । [2.80] तदु ह न मेने गार्ग्यः ॥ २,१.१६ ॥ [2.81] स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । [2.82] तानि यदा गृह्णाति । [2.83] अथ हैतत्पुरुषः स्वपिति नाम । [2.84] तद्गृहीत एव प्राणो भवति । [2.85] गृहीता वाग् । [2.86] गृहीतं चक्षुर् । [2.87] गृहीतं श्रोत्रम् । [2.88] गृहीतं मनः ॥ बृह. २,१.१७ ॥ [2.89] स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः । [2.90] तदुतेव महाराजो भवत्युतेव महाब्राह्मणः । [2.91] उतेवोच्चावचं निगच्छति । [2.92] स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २,१.१८ ॥ [2.93] अथ यदा सुषुप्तो भवति । [2.94] यदा न कस्य चन वेद । [2.95] हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । [2.96] ताभिः प्रत्यवसृप्य पुरीतति शेते । [2.97] स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीत । [2.98] एवमेवैष एतच्छेते ॥ २,१.१९ ॥ [2.99] स यथोर्णनाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । [2.100] तस्योपनिषत्सत्यस्य सत्यमिति । [2.101] प्राणा वै सत्यं तेषामेष सत्यम् ॥ बृह. २,१.२० ॥ [2.102] (सर्वान्नब्राह्मणं वा शिशुब्राह्मणम्) [2.103] यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । [2.104] अयं वाव शिशुर्योऽयं मध्यमः प्राणः । [2.105] तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ २,२.१ ॥ [2.106] तमेताः सप्ताक्षितय उपतिष्ठन्ते । [2.107] तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः । [2.108] अथ या अक्षन्नापस्ताभिः पर्जन्यः । [2.109] या कनीनका तयादित्यः । [2.110] यत्कृष्णं तेनाग्निर् । [2.111] यच्छुक्लं तेनेन्द्रः । [2.112] अधरयैनं वर्तन्या पृथिव्यन्वायत्ता । [2.113] द्यौरुत्तरया । [2.114] नास्यान्नं क्षीयते य एवं वेद ॥ बृह. २,२.२ ॥ [2.115] तदेष श्लोको भवति [2.116] अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । [2.117] तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । [2.118] अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । [2.119] इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । [2.120] तस्मिन् यशो निहितं विश्वरूपमिति । [2.121] प्राणा वै यशो विश्वरूपम् । [2.122] प्राणानेतदाह । [2.123] तस्यासत ऋषयः सप्त तीर इति । [2.124] प्राणा वा ऋषयः । [2.125] प्राणाणेतदाह । [2.126] वागष्टमी ब्रह्मणा संविदानेति । [2.127] वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ बृह. २,२.३ ॥ [2.128] इमावेव गोतमभरद्वाजौ । [2.129] अयमेव गोतमोऽयं भरद्वाजः । [2.130] इमावेव विश्वामित्रजमदग्नी । [2.131] अयमेव विश्वामित्रोऽयं जमदग्निः । [2.132] इमावेव वसिष्ठकश्यपौ । [2.133] अयमेव वसिष्ठोऽयं कश्यपः । [2.134] वागेवात्रिः । [2.135] वाचा ह्यन्नमद्यते । [2.136] अत्तिर्ह वै नामैतद्यदौत्रिरिति । [2.137] सर्वस्यात्ता भवति । [2.138] सर्वमस्यान्नं भवति य एवं वेद ॥ २,२.४ ॥ [2.139] (मूर्तामूर्तब्राह्मणम्) [2.140] द्वे वाव ब्रह्मणो रूपे । [2.141] मूर्तं चैवामूर्तं च । [2.142] मर्त्यं चामृतं च । [2.143] स्थितं च यच्च । [2.144] सच्च त्यं च ॥ बृह. २,३.१ ॥ [2.145] तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च । [2.146] एतन्मर्त्यम् । [2.147] एतत्स्थितम् । [2.148] एतत्सत् । [2.149] तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति । [2.150] सतो ह्येष रसः ॥ २,३.२ ॥ [2.151] अथामूर्तम् । [2.152] वायुश्चान्तरिक्षश्च । [2.153] एतदमृतम् । [2.154] एतद्यत् । [2.155] एतत्त्यम् । [2.156] तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः । [2.157] त्यस्य ह्येष रस । [2.158] इत्यधिदैवतम् ॥ बृह. २,३.३ ॥ [2.159] अथाध्यात्मम् । [2.160] इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः । [2.161] एतन्मर्त्यम् । [2.162] एतत्स्थितम् । [2.163] एतत्सत् । [2.164] तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः । [2.165] सतो ह्येष रसः ॥ २,३.४ ॥ [2.166] अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः । [2.167] एतदमृतम् । [2.168] एतद्यत् । [2.169] एतत्त्यत् । [2.170] तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः । [2.171] त्यस्य ह्येष रसः ॥ बृह. २,३.५ ॥ [2.172] तस्य हैतस्य पुरुषस्य रूपम् । [2.173] यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । [2.174] सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद । [2.175] अथात आदेशो नेति नेति । [2.176] न ह्येतस्मादिति नेत्यन्यत्परमस्ति । [2.177] अथ नामधेयं सत्यस्य सत्यमिति । [2.178] प्राणा वै सत्यम् । [2.179] तेषामेष सत्यम् ॥ २,३.६ ॥ [2.180] (मैत्रेयीब्राह्मणम्) [2.181] मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि । [2.182] हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ बृह. २,४.१ ॥ [2.183] सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति । [2.184] नेति होवाच याज्ञवल्क्यः । [2.185] यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् । [2.186] अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २,४.२ ॥ [2.187] सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । [2.188] यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २,४.३ ॥ [2.189] स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे । [2.190] एह्यास्स्व । [2.191] व्याख्यास्यामि ते । [2.192] व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बृह. २,४.४ ॥ [2.193] स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । [2.194] न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । [2.195] न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । [2.196] न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । [2.197] न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । [2.198] न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । [2.199] न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । [2.200] न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । [2.201] न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । [2.202] न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । [2.203] आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । [2.204] आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ बृह. २,४.५ ॥ [2.205] ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । [2.206] क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । [2.207] लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । [2.208] देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । [2.209] भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । [2.210] सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । [2.211] इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ बृह. २,४.६ ॥ [2.212] स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । [2.213] दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २,४.७ ॥ [2.214] स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २,४.८ ॥ [2.215] स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २,४.९ ॥ [2.216] स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि । [2.217] अस्यैवैतानि निश्वसितानि ॥ बृह. २,४.१० ॥ [2.218] स यथा सर्वासामपां समुद्र एकायनम् । [2.219] एवं सर्वेषां स्पर्शानां त्वगेकायनम् । [2.220] एवं सर्वेषां गन्धानां नासिके एकायनम् । [2.221] एवं सर्वेषां रसानां जिह्वैकायनम् । [2.222] एवं सर्वेषां रूपाणां चक्षुरेकायनम् । [2.223] एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् । [2.224] एवं सर्वेषां संकल्पानां मन एकायनम् । [2.225] एवं सर्वासां विद्यानां हृदयमेकायनम् । [2.226] एवं सर्वेषां कर्मणां हस्तावेकायनम् । [2.227] एवं सर्वेषामानन्दानामुपस्थ एकायनम् । [2.228] एवं सर्वेषां विसर्गाणां पायुरेकायनम् । [2.229] एवं सर्वेषामध्वनां पादावेकायनम् । [2.230] एवं सर्वेषां वेदानां वागेकायनम् ॥ बृह. २,४.११ ॥ [2.231] स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । [2.232] यतोयतस्त्वाददीत लवणम् । [2.233] एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । [2.234] एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । [2.235] न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । [2.236] इति होवाच याज्ञवल्क्यः ॥ २,४.१२ ॥ [2.237] सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति । [2.238] स होवाच न वा अरेऽहं मोहं ब्रवीमि । [2.239] अलं वा अर इदं विज्ञानाय ॥ २,४.१३ ॥ [2.240] यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । [2.241] यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् । [2.242] येनेदं सर्वं विजानाति तं केन विजानीयात् । [2.243] विज्ञातारमरे केन विजानीयादिति ॥ बृह. २,४.१४ ॥ [2.244] (मधुब्राह्मणम्) [2.245] इयं पृथिवी सर्वेषां भूतानां मधु । [2.246] अस्यै पृथिव्यै सर्वाणि भूतानि मधु । [2.247] यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.248] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१ ॥ [2.249] इमा आपः सर्वेषां भूतानां मधु । [2.250] आसामपां सर्वाणि भूतानि मधु । [2.251] यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.252] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.२ ॥ [2.253] अयमग्निः सर्वेषां भूतानां मधु । [2.254] अस्याग्नेः सर्वाणि भूतानि मधु । [2.255] यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.256] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.३ ॥ [2.257] अयं वायुः सर्वेषां भूतानां मधु । [2.258] अस्य वायोः सर्वाणि भूतानि मधु । [2.259] यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा । [2.260] इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.४ ॥ [2.261] अयमादित्यः सर्वेषां भूतानां मधु । [2.262] अस्यादित्यस्य सर्वाणि भूतानि मधु । [2.263] यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.264] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.५ ॥ [2.265] इमा दिशः सर्वेषां भूतानां मधु । [2.266] आसां दिशां सर्वाणि भूतानि मधु । [2.267] यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.268] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.६ ॥ [2.269] अयं चन्द्रः सर्वेषां भूतानां मध्व् । [2.270] अस्य चन्द्रस्य सर्वाणि भूतानि मधु । [2.271] यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् । [2.272] इदं ब्रह्मेदं सर्वम् ॥ २,५.७ ॥ [2.273] इयं विद्युत्सर्वेषां भूतानं मधु । [2.274] अस्यै विद्युतः सर्वाणि भूतानि मधु । [2.275] यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.276] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.८ ॥ [2.277] अयं स्तनयित्नुः सर्वेषां भुतानां मधु । [2.278] अस्य स्तनयित्नोः सर्वाणि भूतानि मधु । [2.279] यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.280] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.९ ॥ [2.281] अयमाकाशः सर्वेषां भूतानां मधु । [2.282] अस्याकाशस्य सर्वाणि भूतानि मधु । [2.283] यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.284] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१० ॥ [2.285] अयं धर्मः सर्वेषां भूतानां मधु । [2.286] अस्य धर्मस्य सर्वाणि भूतानि मधु । [2.287] यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.288] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.११ ॥ [2.289] इदं सत्यं सर्वेषां भूतानां मधु । [2.290] अस्य सत्यस्य सर्वाणि भूतानि मधु । [2.291] यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.292] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१२ ॥ [2.293] इदं मानुषं सर्वेषां भूतानां मधु । [2.294] अस्य मानुषस्य सर्वाणि भूतानि मधु । [2.295] यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.296] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१३ ॥ [2.297] अयमात्मा सर्वेषां भूतानां मधु । [2.298] अस्यात्मनः सर्वाणि भूतानि मधु । [2.299] यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । [2.300] इदममृतमिदं ब्रह्मेदं सर्वम् ॥ बृह. २,५.१४ ॥॥ [2.301] स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा । [2.302] तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः । [2.303] एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २,५.१५ ॥ [2.304] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । [2.305] तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । [2.306] दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २,५.१६ ॥ [2.307] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । [2.308] तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । [2.309] स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ बृह. २,५.१७ ॥ [2.310] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । [2.311] तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । [2.312] पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति । [2.313] स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः । [2.314] नैनेन किं चनानावृतम् । [2.315] नैनेन किं चनासंवृतम् ॥ २,५.१८ ॥ [2.316] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । [2.317] तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । [2.318] इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । [2.319] अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च । [2.320] तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् । [2.321] अयमात्मा ब्रह्म सर्वानुभूः । [2.322] इत्यनुशासनम् ॥ बृह. २,५.१९ ॥ [2.323] अथ वंशः [2.324] पौतिमाष्यो गौपवनात् । [2.325] गौपवनः पशुतिमाष्यात् । [2.326] पशुतिमाष्यो गौपवनात् । [2.327] गौपवनः कौशिकात् । [2.328] कौशिकः कौण्डिन्यात् । [2.329] कौण्डिन्यः शाण्डिल्यात् । [2.330] शाण्डिल्यः कौशिकाच्च गौतमाच्च । [2.331] गौतमः ॥ बृह. २,६.१ ॥ [2.332] आग्निवेश्यात् । [2.333] आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च । [2.334] आनभिम्लात आनभिम्लातात् । [2.335] आनभिम्लात आनभिम्लातात् । [2.336] आनभिम्लातो गौतमात् । [2.337] गौतमः सैतवप्राचीनयोग्याभ्याम् । [2.338] सैतवप्राचीनयोग्यौ पाराशर्यात् । [2.339] पाराशर्यो भारद्वाजात् । [2.340] भारद्वाजो भारद्वाजाच्च गौतमाच्च । [2.341] गौतमो भारद्वाजात् । [2.342] भारद्वाजः पाराशर्यात् । [2.343] पाराशर्यो वैजवापायनात् । [2.344] वैजवापायनः कौशिकायनेः । [2.345] कौशिकायनिः ॥ बृह. २,६.२ ॥ [2.346] घृतकौशिकात् । [2.347] घृतकौशिकः प्राशर्यायणात् । [2.348] पारशर्यायणः पाराशर्यात् । [2.349] पाराशर्यो जातूकर्ण्यात् । [2.350] जातूकर्ण्य आसुरायणाच्च यास्काच्च । [2.351] आसुरायणस्त्रैवणेः । [2.352] त्रैवणिरौपजन्धनेः । [2.353] औपजन्धनिरासुरेः । [2.354] आसुरिर्भारद्वाजात् । [2.355] भारद्वाज आत्रेयात् । [2.356] आत्रेयो माण्टेः । [2.357] माण्टिर्गौतमात् । [2.358] गौतमो वात्स्यात् । [2.359] वात्स्यः शाण्डिल्यात् । [2.360] शाण्डिल्यः कैशोर्यात्काप्यात् । [2.361] कैशोर्यः काप्यः कुमारहारितात् । [2.362] कुमारहारितो गालवात् । [2.363] गालवो विदर्भीकौण्डिन्यात् । [2.364] विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । [2.365] वत्सनपाद्बाभ्रवः पथः सौभरात् । [2.366] पन्थाः सौभरोऽयास्यादाङ्गिरसात् । [2.367] अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् । [2.368] आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् । [2.369] विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् । [2.370] अश्विनौ दधीच आथर्वणात् । [2.371] दध्यङ्ङाथर्वणोऽथर्वणो दैवात् । [2.372] अथर्वा दैवो मृत्योः प्राध्वंसनात् । [2.373] मृत्युः प्राध्वंसनः प्रध्वंसनात् । [2.374] प्रध्वंसन एकर्षेः । [2.375] एकर्षिर्विप्रचित्तेः । [2.376] विप्रचित्तिर्व्यष्टेर् । [2.377] व्यष्टिः सनारोः । [2.378] सनारुः सनातनात् । [2.379] सनातनः सनगात् । [2.380] सनगः परमेष्ठिनः । [2.381] परमेष्ठी ब्रह्मणः । [2.382] ब्रह्म स्वयंभु । [2.383] ब्रह्मणे नमः ॥ बृह. २,६.३ ॥ [2.384] इति षष्ठं ब्राह्मणम् ॥ [2.385] ॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥ ## Third Adhyāya [3.1] प्रथमं ब्राह्मणम् । [3.2] (अश्वलब्राह्मणम्) [3.3] जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । [3.4] तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । [3.5] तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । [3.6] स ह गवां सहस्रमवरुरोध । [3.7] दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ ३,१.१ ॥ [3.8] तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । [3.9] ते ह ब्राह्मणा न दधृषुः । [3.10] अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच एताः सौम्योदज सामश्रवा३ इति । [3.11] ता होदाचकार । [3.12] ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । [3.13] अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । [3.14] स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । [3.15] स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । [3.16] तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ बृह. ३,१.२ ॥ [3.17] याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । [3.18] होत्रर्त्विजाग्निना वाचा । [3.19] वाग्वै यज्ञस्य होता । [3.20] तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ ३,१.३ ॥ [3.21] याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति । [3.22] अध्वर्युणर्त्विजा चक्षुषादित्येन । [3.23] चक्षुर्वै यज्ञस्याध्वर्युः । [3.24] तद्यदिदं चक्षुः सोऽसावादित्यः । [3.25] सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ ३,१.४ ॥ [3.26] याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । [3.27] उद्गात्रर्त्विजा वयुना प्राणेन । [3.28] प्राणो वै यज्ञस्योद्गाता । [3.29] तद्योऽयं प्राणः स वायुः स उद्गाता । [3.30] स मुक्तिः सातिमुक्तिः ॥ बृह. ३,१.५ ॥ [3.31] याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । [3.32] ब्रह्मणर्त्विजा मनसा चन्द्रेण । [3.33] मनो वै यज्ञस्य ब्रह्मा । [3.34] तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा । [3.35] अथ संपदः ॥ ३,१.६ ॥ [3.36] याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति । [3.37] तिसृभिरिति । [3.38] कतमास्तास्तिस्र इति । [3.39] पुरोनुवाक्या च याज्या च शस्यैव तृतीया । [3.40] किं ताभिर्जयतीति । [3.41] यत्किञ्चेदं प्राणभृदिति ॥ बृह. ३,१.७ ॥ [3.42] याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति । [3.43] तिस्र इति । [3.44] कतमास्तास्तिस्र इति । [3.45] या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते । [3.46] किं ताभिर्जयतीति । [3.47] या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति । [3.48] दीप्यत इव हि देवलोको । [3.49] या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयति । [3.50] अतीव हि पितृलोकः । [3.51] या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यि । [3.52] अध इव हि मनुष्यलोकः ॥ ३,१.८ ॥ [3.53] याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति । [3.54] एकयेति । [3.55] कतमा सैकेति । [3.56] मन एवेति । [3.57] अनन्तं वै मनोऽनन्ता विश्वे देवाः । [3.58] अनन्तमेव स तेन लोकं जयति ॥ बृह. ३,१.९ ॥ [3.59] याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । [3.60] तिस्र इति । [3.61] कतमास्तास्तिस्र इति । [3.62] पुरोनुवाक्या च याज्या च शस्यैव तृतीया । [3.63] कतमास्ताः । [3.64] या अध्यात्ममिति । [3.65] प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या । [3.66] किं ताभिर्जयतीति । [3.67] पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया । [3.68] ततो ह होताश्वल उपरराम ॥ ३,१.१० ॥ [3.69] (आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्) [3.70] अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । [3.71] याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । [3.72] अष्टौ ग्रहा अष्टावतिग्रहा इति । [3.73] ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ बृह. ३,२.१ ॥ [3.74] प्राणो वै ग्रहः । [3.75] सोऽपानेनातिग्रहेण गृहीतः । [3.76] प्राणेन हि गन्धाञ्जिघ्रति ॥ ३,२.२ ॥ [3.77] वाग्वै ग्रहः । [3.78] स नाम्नातिग्रहेण गृहीतः । [3.79] वाचा हि नामान्यभिवदति ॥ ३,२.३ ॥ [3.80] जिह्वा वै ग्रहः । [3.81] स रसेनातिग्रहेण गृहीतः । [3.82] जिह्वया हि रसान् विजानाति ॥ बृह. ३,२.४ ॥ [3.83] चक्षुर्वै ग्रहः । [3.84] स रूपेणातिग्रहेण गृहीतः । [3.85] चक्षुषा हि रूपाणि पश्यति ॥ ३,२.५ ॥ [3.86] श्रोत्रं वै ग्रहः । [3.87] स शब्देनातिग्रहेण गृहीतः । [3.88] श्रोत्रेण हि शब्दाञ्शृणोति ॥ ३,२.६ ॥ [3.89] मनो वै ग्रहः । [3.90] स कामेनातिग्रहेण गृहीतः । [3.91] मनसा हि कामान् कामयते ॥ ३,२.७ ॥ [3.92] हस्तौ वै ग्रहः । [3.93] स कर्मणातिग्रहेण गृहीतः । [3.94] हस्ताभ्यां हि कर्म करोति ॥ बृह. ३,२.८ ॥ [3.95] त्वग्वै ग्रहः । [3.96] स स्पर्शेनातिग्रहेण गृहीतः । [3.97] त्वचा हि स्पर्शान् वेदयत । [3.98] इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ३,२.९ ॥ [3.99] याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति । [3.100] अग्निर्वै मृत्युः सोऽपामन्नम् । [3.101] अप पुनर्मृत्युं जयति ॥ ३,२.१० ॥ [3.102] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति । [3.103] नेति होवाच याज्ञवल्क्यः । [3.104] अत्रैव समवनीयन्ते । [3.105] स उच्छ्वयति । [3.106] आध्मायति । [3.107] आध्मातो मृतः शेते ॥ बृह. ३,२.११ ॥ [3.108] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते । [3.109] किमेनं न जहातीति । [3.110] नामेति । [3.111] अनन्तं वै नामानन्ता विश्वे देवाः । [3.112] अनन्तमेव स तेन लोकं जयति ॥ ३,२.१२ ॥ [3.113] याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति । [3.114] आहर सौम्य हस्तम् आर्तभाग । [3.115] आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । [3.116] तौ होत्क्रम्य मन्त्रयां चक्राते । [3.117] तौ ह यदूचतुः कर्म हैव तदूचतुः । [3.118] अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः । [3.119] पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । [3.120] ततो ह जारत्कारव आर्तभाग उपरराम ॥ बृह. ३,२.१३ ॥ [3.121] (भुज्युब्राह्मणम्) [3.122] अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम । [3.123] ते पतञ्चलस्य काप्यस्य गृहानैम । [3.124] तस्यासीद्दुहिता गन्धर्वगृहीता । [3.125] तमपृच्छाम कोऽसीति । [3.126] सोऽब्रवीत्सुधन्वाङ्गिरस इति । [3.127] तं यदा लोकानामन्तानपृच्छाम । [3.128] अथैनमब्रूम क्व पारिक्षिता अभवन्निति । [3.129] क्व पारिक्षिता अभवन् । [3.130] स त्वा पृच्छामि याज्ञवल्क्य । [3.131] क्व पारिक्षिता अभवन्निति ॥ ३,३.१ ॥ [3.132] स होवाच उवाच वै सः । [3.133] अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति । [3.134] क्व न्वश्वमेधयाजिनो गच्छन्तीति । [3.135] द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः । [3.136] तं समन्तं पृथिवी द्विस्तावत्पर्येति । [3.137] तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति । [3.138] तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् । [3.139] तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति । [3.140] एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः । [3.141] अप पुनर्मृत्युं जयति य एवं वेद । [3.142] ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ बृह. ३,३.२ ॥ [3.143] (उषस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम्) [3.144] अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । [3.145] याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । [3.146] एष त आत्मा सर्वान्तरः । [3.147] यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः । [3.148] योऽपानेनापानिति स त आत्मा सर्वान्तरः । [3.149] यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः । [3.150] य उदानेनोदनिति स त आत्मा सर्वान्तरः । [3.151] एष त आत्मा सर्वान्तरः ॥ बृह. ३,४.१ ॥ [3.152] स होवाचोषस्तश्चाक्रायणः यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति । [3.153] यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । [3.154] एष त आत्मा सर्वान्तरः । [3.155] कतमो याज्ञवल्क्य सर्वान्तरः । [3.156] न दृष्टेर्द्रष्टारं पश्येः । [3.157] न श्रुतेः श्रोतारं शृणुयाः । [3.158] न मतेर्मन्तारं मन्वीथा । [3.159] न विज्ञातेर्विज्ञातारं विजानीयाः । [3.160] एष त आत्मा सर्वान्तरः । [3.161] अतोऽन्यदार्तम् । [3.162] ततो होषस्तश्चाक्रायण उपरराम ॥ बृह. ३,४.२ ॥ [3.163] अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच । [3.164] यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । [3.165] एष त आत्मा सर्वान्तरः । [3.166] कतमो याज्ञवल्क्य सर्वान्तरः । [3.167] योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । [3.168] एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । [3.169] या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा । [3.170] उभे ह्येते एषणे एव भवतः । [3.171] तस्माद्ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । [3.172] बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । [3.173] अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । [3.174] स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव । [3.175] अतोऽन्यदार्तम् । [3.176] ततो ह कहोलः कौषीतकेय उपरराम ॥ बृह. ३,५.१ ॥ [3.177] (गार्गीब्राह्मणम्) [3.178] अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच । [3.179] यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । [3.180] वायौ गार्गीति । [3.181] कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति । [3.182] अन्तरिक्षलोकेषु गार्गीति । [3.183] कस्मिन्नु खल्वन्तरिक्षलोका ओतश्च प्रोतश्चेति । [3.184] गन्धर्वलोकेषु गार्गीति । [3.185] कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति । [3.186] अदित्यलोकेषु गार्गीति । [3.187] कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । [3.188] चन्द्रलोकेषु गार्गीति । [3.189] कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । [3.190] नक्षत्रलोकेषु गार्गीति । [3.191] कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । [3.192] देवलोकेषु गार्गीति । [3.193] कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति । [3.194] इन्द्रलोकेषु गार्गीति । [3.195] कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । [3.196] प्रजापतिलोकेषु गार्गीति । [3.197] कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । [3.198] ब्रह्मलोकेषु गार्गीति । [3.199] कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । [3.200] स होवाच गार्गि मातिप्राक्षीः । [3.201] मा ते मूर्धा व्यपप्तत् । [3.202] अनतिप्रश्न्यां वै देवतामतिपृच्छसि । [3.203] गार्गि मातिप्राक्षीरिति । [3.204] ततो ह गार्गी वाचक्नव्युपरराम ॥ बृह. ३,६.१ ॥ [3.205] (उद्दालकब्राह्मणं, अन्तर्यामिब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्) [3.206] अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच । [3.207] मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । [3.208] तस्यासीद्भार्या गन्धर्वगृहीता । [3.209] तमपृच्छाम कोऽसीति । [3.210] सोऽब्रवीत्कबन्ध आथर्वण इति । [3.211] सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । [3.212] सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति । [3.213] सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । [3.214] वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति । [3.215] सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । [3.216] सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । [3.217] यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् । [3.218] इति तेभ्योऽब्रवीत् । [3.219] तदहं वेद । [3.220] तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति । [3.221] वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । [3.222] यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ बृह. ३,७.१ ॥ [3.223] स होवाच वायुर्वै गौतम तत्सूत्रम् । [3.224] वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति । [3.225] तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति । [3.226] वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति । [3.227] एवमेवैतद्याज्ञवल्क्य । [3.228] अन्तर्यामिणं ब्रूहीति ॥ ३,७.२ ॥ [3.229] यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.३ ॥ [3.230] योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.४ ॥ [3.231] योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ बृह. ३,७.५ ॥ [3.232] योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.६ ॥ [3.233] यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.७ ॥ [3.234] यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.८ ॥ [3.235] य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.९ ॥ [3.236] यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१० ॥ [3.237] यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ बृह. ३,७.११ ॥ [3.238] य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१२ ॥ [3.239] यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१३ ॥ [3.240] यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१४ ॥ [3.241] अथाधिभूतम् । [3.242] यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः । [3.243] इत्यधिभूतम् ॥ बृह. ३,७.१५ ॥ [3.244] अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ३,७.१६ ॥ [3.245] यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१७ ॥ [3.246] यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१८ ॥ [3.247] यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१९ ॥ [3.248] यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.२० ॥ [3.249] यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.२१ ॥ [3.250] यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ बृह. ३,७.२२ ॥ [3.251] यो रेतसि तिष्ठं रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः । [3.252] अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता । [3.253] नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता । [3.254] एष त आत्मान्तर्याम्यमृतः । [3.255] अतोऽन्यदार्तम् । [3.256] ततो होद्दालक आरुणिरुपरराम ॥ ३,७.२३ ॥ [3.257] (वाचक्नवीब्राह्मणं, अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्) [3.258] अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि । [3.259] तौ चेन्मे विवक्ष्यति । [3.260] न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । [3.261] पृच्छ गार्गीति ॥ बृह. ३,८.१ ॥ [3.262] सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । [3.263] तौ मे ब्रूहीति । [3.264] पृच्छ गार्गीति ॥ ३,८.२ ॥ [3.265] सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८.३ ॥ [3.266] स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ बृह. ३,८.४ ॥ [3.267] सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ३,८.५ ॥ [3.268] सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८.६ ॥ [3.269] स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । [3.270] कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ३,८.७ ॥ [3.271] स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् (Vआऋ ओरगात्रममात्रम्) । [3.272] न तदश्नाति किं चन । [3.273] न तदश्नाति कश्चन ॥ बृह. ३,८.८ ॥ [3.274] एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । [3.275] एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । [3.276] एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति । [3.277] एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु । [3.278] एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ३,८.९ ॥वा अक्षरस्य् [3.279] यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति [3.280] यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः । [3.281] अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ बृह. ३,८.१० ॥ [3.282] तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । [3.283] नान्यदतोऽस्ति द्रष्टृ । [3.284] नान्यदतोऽस्ति श्रोतृ । [3.285] नान्यदतोऽस्ति मन्तृ । [3.286] नान्यदतोऽस्ति विज्ञातृ । [3.287] एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ ३,८.११ ॥ [3.288] सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् । [3.289] न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । [3.290] ततो ह वाचक्नव्युपरराम ॥ बृह. ३,८.१२ ॥ [3.291] (शाकल्यब्राह्मणग्रन्थो वा शाकल्यब्राह्मणम्) [3.292] अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । [3.293] स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते । [3.294] त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति । [3.295] ओमिति होवाच । [3.296] कत्येव देवा याज्ञवल्क्येति । [3.297] त्रयस्त्रिंशदिति । [3.298] ओमिति होवाच । [3.299] कत्येव देवा याज्ञवल्क्येति । [3.300] षडिति । [3.301] ओमिति होवाच । [3.302] कत्येव देवा याज्ञवल्क्येति । [3.303] त्रय इति । [3.304] ओमिति होवाच । [3.305] कत्येव देवा याज्ञवल्क्येति । [3.306] द्वाविति । [3.307] ओमिति होवाच । [3.308] कत्येव देवा याज्ञवल्क्येति । [3.309] अध्यर्ध इति । [3.310] ओमिति होवाच । [3.311] कत्येव देवा याज्ञवल्क्येति । [3.312] एक इति । [3.313] ओमिति होवाच । [3.314] कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ बृह. ३,९.१ ॥ [3.315] स होवाच महिमान एवैषामेते । [3.316] त्रयस्त्रिंशत्त्वेव देवा इति । [3.317] कतमे ते त्रयस्त्रिंशदिति । [3.318] अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशदैन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ ३,९.२ ॥ [3.319] कतमे वसव इति । [3.320] अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौः च चन्द्रमाश्च नक्षत्राणि चैते वसवः । [3.321] एतेषु हीदं सर्वं वसु हितं इति तस्माद्वसव इति ॥ ३,९.३ ॥ [3.322] कतमे रुद्रा इति । [3.323] दशेमे पुरुषे प्राणा आत्मैकादशः । [3.324] ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति । [3.325] तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ बृह. ३,९.४ ॥ [3.326] कतम आदित्या इति । [3.327] द्वादश वै मासाः संवत्सरस्यैत आदित्याः । [3.328] एते हीदं सर्वमाददाना यन्ति । [3.329] ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ३,९.५ ॥ [3.330] कतम इन्द्रः कतमः प्रजापतिरिति । [3.331] स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । [3.332] कतमः स्तनयित्नुरिति । [3.333] अशनिरिति । [3.334] कतमो यज्ञ इति । [3.335] पशव इति ॥ ३,९.६ ॥ [3.336] कतमे षडिति । [3.337] अग्निश्च पृथिवी च वायुश्चान्तरिक्षश्चादित्यश्च द्यौश्चैते षट् । [3.338] एते हीदं सर्वं षडिति ॥ बृह. ३,९.७ ॥ [3.339] कतमे ते त्रयो देवा इति । [3.340] इम एव त्रयो लोकाः । [3.341] एषु हीमे सर्वे देवा इति । [3.342] कतमौ तौ द्वौ देवा इति । [3.343] अन्नं चैव प्राणश्चेति । [3.344] कतमोऽध्यर्ध इति । [3.345] योऽयं पवत इति ॥ ३,९.८ ॥ [3.346] तदाहुर्यदयमेक इवैव पवते । [3.347] अथ कथमध्यर्ध इति । [3.348] यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति । [3.349] कतम एको देव इति । [3.350] प्राण इति । [3.351] स ब्रह्म त्यदित्याचक्षते ॥ बृह. ३,९.९ ॥ [3.352] पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.353] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.354] य एवायं शारीरः पुरुषः स एषः । [3.355] वदैव शाकल्य तस्य का देवतेति । [3.356] अमृतमिति होवाच ॥ ३,९.१० ॥ [3.357] काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.358] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.359] य एवायं काममयः पुरुषः स एषः । [3.360] वदैव शाकल्य तस्य का देवतेति । [3.361] स्त्रिय इति होवाच ॥ बृह. ३,९.११ ॥ [3.362] रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.363] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.364] य एवासावादित्ये पुरुषः स एषः । [3.365] वदैव शाकल्य तस्य का देवतेति । [3.366] सत्यमिति होवाच ॥ ३,९.१२ ॥ [3.367] आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.368] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.369] य एवायं श्रौतः प्रातिश्रुत्कः पुरुषः स एष । [3.370] वदैव शाकल्य तस्य का देवतेति । [3.371] दिश इति होवच ॥ बृह. ३,९.१३ ॥ [3.372] तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.373] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.374] य एवायं छायामयः पुरुषः स एषः । [3.375] वदैव शाकल्य तस्य का देवतेति । [3.376] मृत्युरिति होवाच ॥ ३,९.१४ ॥ [3.377] रूपाण्येव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.378] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.379] य एवायमादर्शे पुरुषः स एषः । [3.380] वदैव शाकल्य तस्य का देवतेति । [3.381] सत्यमिति होवाच ॥ बृह. ३,९.१५ ॥ [3.382] आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.383] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.384] य एवायं अप्सु पुरुषः स एषः । [3.385] वदैव शाकल्य तस्य का देवतेति । [3.386] वरुण इति होवाच ॥ ३,९.१६ ॥ [3.387] रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । [3.388] याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । [3.389] य एवायं पुत्रमयः पुरुषः स एषः । [3.390] वदैव शाकल्य तस्य का देवतेति । [3.391] प्रजापतिरिति होवाच ॥ बृह. ३,९.१७ ॥ [3.392] शाकल्येति होवाच याज्ञवल्क्यः । [3.393] त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ ३,९.१८ ॥ [3.394] याज्ञवल्क्येति होवाच शाकल्यः । [3.395] यदिदं कुरुपञ्चालानां ब्राह्मनानत्यवादीः किं ब्रह्म विद्वानिति । [3.396] दिशो वेद सदेवाः सप्रतिष्ठा इति । [3.397] यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ ३,९.१९ ॥ [3.398] किंदेवतोऽस्यां प्राच्यां दिश्यसीति । [3.399] आदित्यदेवत इति । [3.400] स आदित्यः कस्मिन् प्रतिष्ठित इति । [3.401] चक्षुषीति । [3.402] कस्मिन्नु चक्षुः प्रतिष्ठितमिति । [3.403] रूपेष्विति । [3.404] चक्षुषा हि रूपाणि पश्यति । [3.405] कस्मिन्नु रूपाणि प्रतिष्ठितानीति । [3.406] हृदय इति होवाच । [3.407] हृदयेन हि रूपाणि जानाति । [3.408] हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । [3.409] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ३,९.२० ॥ [3.410] किंदेवतोऽस्यां दक्षिणायां दिश्यसीति । [3.411] यमदेवत इति । [3.412] स यमः कस्मिन् प्रतिष्ठित इति । [3.413] यज्ञ इति । [3.414] कस्मिन्नु यज्ञः प्रतिष्ठित इति । [3.415] दक्षिणायामिति । [3.416] कस्मिन्नु दक्षिणा प्रतिष्ठितेति । [3.417] श्रद्धायामिति । [3.418] यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति । [3.419] श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । [3.420] कस्मिन्नु श्रद्धा प्रतिष्ठितेति । [3.421] हृदय इति होवाच । [3.422] हृदयेन हि श्रद्धाम् । [3.423] हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । [3.424] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ३,९.२१ ॥ [3.425] किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति । [3.426] वरुणदेवत इति । [3.427] स वरुणः कस्मिन् प्रतिष्ठित इति । [3.428] अप्स्विति । [3.429] कस्मिन्न्वापः प्रतिष्ठिता इति । [3.430] रेतसीति । [3.431] कस्मिन्नु रेतः प्रतिष्ठितमिति । [3.432] हृदय इति । [3.433] तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति । [3.434] हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । [3.435] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ३,९.२२ ॥ [3.436] किंदेवतोऽस्यामुदीच्यां दिश्यसीति । [3.437] सोमदेवत इति । [3.438] स सोमः कस्मिन् प्रतिष्ठित इति । [3.439] दीक्षायामिति । [3.440] कस्मिन्नु दिक्षा प्रतिष्ठितेति । [3.441] सत्य इति । [3.442] तस्मादपि दीक्षितमाहुः सत्यं वदेति । [3.443] सत्ये ह्येव दीक्षा प्रतिष्ठितेति । [3.444] कस्मिन्नु सत्यं प्रतिष्ठितमिति । [3.445] हृदय इति होवाच । [3.446] हृदयेन हि सत्यं जानाति । [3.447] हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । [3.448] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ३,९.२३ ॥ [3.449] किंदेवतोऽस्यां ध्रुवायां दिश्यसीति । [3.450] अग्निदेवत इति । [3.451] सोऽग्निः कस्मिन् प्रतिष्ठित इति । [3.452] वाचीति । [3.453] कस्मिन्नु वाक्प्रतिष्ठितेति । [3.454] हृदय इति । [3.455] कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ बृह. ३,९.२४ ॥ [3.456] अहल्लिकेति होवाच याज्ञवल्क्यः । [3.457] यत्रैतदन्यत्रास्मन्मन्यासै । [3.458] यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ ३,९.२५ ॥ [3.459] कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । [3.460] प्राण इति । [3.461] कस्मिन्नु प्राणः प्रतिष्ठित इति । [3.462] अपान इति । [3.463] कस्मिन्न्वपानः प्रतिष्ठित इति । [3.464] व्यान इति । [3.465] कस्मिन्नु व्यानः प्रतिष्ठित इति । [3.466] उदान इति । [3.467] कस्मिन्नूदानः प्रतिष्ठित इति । [3.468] समान इति । [3.469] स एष नेति नेत्यात्मा । [3.470] अगृह्यो न हि गृह्यते । [3.471] अशीर्यो न हि शीर्यते । [3.472] असङ्गो न सज्यते । [3.473] असितो न व्यथते । [3.474] न रिष्यति । [3.475] एतान्यष्टावायतनान्यष्टौ लोका अद्द्. अष्टौ देवा अष्टौ पुरुषाः । [3.476] स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि । [3.477] तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । [3.478] तं ह न मेने शाकल्यस्। [3.479] तस्य ह मूर्धा विपपात । [3.480] अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ बृह. ३,९.२६ ॥ [3.481] अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु । [3.482] सर्वे वा मा पृच्छत । [3.483] यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति । [3.484] ते ह ब्राह्मणा न दधृषुः ॥ ३,९.२७ ॥ [3.485] तान् हैतैः श्लोकैः पप्रच्छ [3.486] यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । [3.487] तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ ३,९.२९ ॥ [3.488] त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । [3.489] तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ बृह. ३,९.३०॥ [3.490] मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । [3.491] अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ ३,९.३१॥ [3.492] यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । [3.493] मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९.३२ ॥ [3.494] रेतस इति मा वोचत जीवतस्तत्प्रजायते । [3.495] धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ३,९.३३॥ [3.496] यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । [3.497] मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९.३४॥ [3.498] जात एव न जायते को न्वेनं जनयेत्पुनः । [3.499] विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ बृह. ३,९.३५ ॥ [3.500] जात एव न जायते को न्वेनं जनयेत्पुनः । [3.501] विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ [3.502] तिष्ठमानस्य तद्विद इति ॥ ३,९.३६॥ [3.503] इति नवमं ब्राह्मणम् ॥ [3.504] इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥ ## Fourth Adhyāya [4.1] अथ चतुर्थोऽध्यायः । [4.2] प्रथमं ब्राह्मणम् [4.3] (षडाचार्यब्राह्मणं वा उदंकब्राह्मणम् ) [4.4] जनको ह वैदेह आसां चक्रे । [4.5] अथ ह याज्ञवल्क्य आवव्राज । [4.6] तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनण्वन्तानीति । [4.7] उभयमेव संराडिति होवाच ॥ बृह. ४,१.१ ॥ [4.8] यत्ते कश्चिदब्रवीत्तच्छृणवामेति । [4.9] अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति । [4.10] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेति । [4.11] अवदतो हि किं स्यादिति । [4.12] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.13] न मेऽब्रवीदिति । [4.14] एकपाद्वा एतत्सम्राडिति । [4.15] स वै नो ब्रूहि याज्ञवल्क्य । [4.16] वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । [4.17] का प्रज्ञता याज्ञवल्क्य । [4.18] वागेव सम्राडिति होवाच । [4.19] वाचा वै सम्राड्बन्धुः प्रज्ञायते । [4.20] ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव संराट्प्रज्ञायन्ते । [4.21] वाग्वै सम्राट्परमं ब्रह्म । [4.22] नैनं वाग्जहाति । [4.23] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.24] देवो भूत्वा देवानप्येति । [4.25] य एवं विद्वानेतदुपास्ते । [4.26] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । [4.27] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.२ ॥ [4.28] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । [4.29] अब्रवीन्म उदङ्कः शौल्बायनः । [4.30] प्राणो वै ब्रह्मेति । [4.31] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति । [4.32] अप्राणतो हि किं स्यादिति । [4.33] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.34] न मेऽब्रवीदिति । [4.35] एकपाद्वा एतत्सम्राडिति । [4.36] स वै नो ब्रूहि याज्ञवल्क्य । [4.37] प्राण एवायतनमाकाशः प्रतिष्ठा । [4.38] प्रियमित्येनदुपासीत । [4.39] का प्रियता याज्ञवल्क्य । [4.40] प्राण एव सम्राडिति होवाच । [4.41] प्राणस्य वै सम्राट्कामायायाज्यं याजयति । [4.42] अप्रतिगृह्यस्य प्रतिगृह्णाति । [4.43] अपि तत्र वधाशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय । [4.44] प्राणो वै सम्राट्परमं ब्रह्म । [4.45] नैनं प्राणो जहाति । [4.46] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.47] देवो भूत्वा देवानप्येति । [4.48] य एवं विद्वानेतदुपास्ते । [4.49] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् । [4.50] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.३ ॥ [4.51] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । [4.52] अब्रवीन्मे बर्कुर्वार्ष्णः । [4.53] चक्षुर्वै ब्रह्मेति । [4.54] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति । [4.55] अपश्यतो हि किं स्यादिति । [4.56] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.57] न मेऽब्रवीदिति । [4.58] एकपाद्वा एतत्सम्राडिति । [4.59] स वै नो ब्रूहि याज्ञवल्क्य । [4.60] चक्षुरेवायतनमाकाशः प्रतिष्ठा । [4.61] सत्यमित्येतदुपासीत । [4.62] का सत्यता याज्ञवल्क्य । [4.63] चक्षुरेव सम्राडिति होवाच । [4.64] चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति । [4.65] स आहाद्राक्षमिति तत्सत्यं भवति । [4.66] चक्षुर्वै सम्राट्परमं ब्रह्म । [4.67] नैनं चक्षुर्जहाति । [4.68] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.69] देवो भूत्वा देवानप्येति । [4.70] य एवं विद्वानेतदुपास्ते । [4.71] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । [4.72] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.४ ॥ [4.73] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । [4.74] अब्रवीन्मे गर्दभीविपीतो भारद्वाजः । [4.75] श्रोत्रं वै ब्रह्मेति । [4.76] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति । [4.77] अशृण्वतो हि किं स्यादिति । [4.78] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.79] न मेऽब्रवीदिति । [4.80] एकपाद्वा एतत्सम्राडिति । [4.81] स वै नो ब्रूहि याज्ञवल्क्य । [4.82] श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत । [4.83] कानन्तता याज्ञवल्क्य । [4.84] दिश एव सम्राडिति होवाच । [4.85] तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति । [4.86] अनन्ता हि दिशः । [4.87] दिशो वै सम्राट्श्रोत्रम् । [4.88] श्रोत्रं वै सम्राट्परमं ब्रह्म । [4.89] नैनं श्रोत्रं जहाति । [4.90] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.91] देवो भूत्वा देवानप्येति । [4.92] य एवं विद्वानेतदुपास्ते । [4.93] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । [4.94] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.५ ॥ [4.95] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । [4.96] अब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति । [4.97] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति । [4.98] अमनसो हि किं स्यादिति । [4.99] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.100] न मेऽब्रवीदिति । [4.101] एकपाद्वा एतत्सम्राडिति । [4.102] स वै नो ब्रूहि याज्ञावल्क्य । [4.103] मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत । [4.104] कानन्दता याज्ञवल्क्य । [4.105] मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । [4.106] स आनन्दः । [4.107] मनो वै सम्राट्परमं ब्रह्म । [4.108] नैनं मनो जहाति । [4.109] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.110] देवो भूत्वा देवानप्येति । [4.111] य एवं विद्वानेतदुपास्ते । [4.112] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । [4.113] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.६ ॥ [4.114] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । [4.115] अब्रवीन्मे विदग्धः शाकल्यः । [4.116] हृदयं वै ब्रह्मेति । [4.117] यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति । [4.118] अहृदयस्य हि किं स्यादिति । [4.119] अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । [4.120] न मेऽब्रवीदिति । [4.121] एकपाद्वा एतत्सम्राडिति । [4.122] स वै नो ब्रूहि याज्ञवल्क्य । [4.123] हृदयमेवायतनमाकाशः प्रतिष्ठा । [4.124] स्थितिरित्येनदुपासीत । [4.125] का स्थितिता याज्ञवल्क्य । [4.126] हृदयमेव सम्राडिति होवाच । [4.127] हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् । [4.128] हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा । [4.129] हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । [4.130] हृदयं वै सम्राट्परमं ब्रह्म । [4.131] नैनं हृदयं जहाति । [4.132] सर्वाण्येनं भूतान्यभिक्षरन्ति । [4.133] देवो भूत्वा देवानप्येति । [4.134] य एवं विद्वानेतदुपास्ते । [4.135] हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । [4.136] स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.७ ॥ [4.137] जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्य । [4.138] अनु मा शाधीति । [4.139] स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि । [4.140] एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । [4.141] नाहं तद्भगवन् वेद यत्र गमिष्यामीति । [4.142] अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । [4.143] ब्रवीतु भगवानिति ॥ ४,२.१ ॥ [4.144] इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः । [4.145] तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव । [4.146] परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ बृह. ४,२.२ ॥ [4.147] अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् । [4.148] तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः । [4.149] अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः । [4.150] अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव । [4.151] अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति । [4.152] यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति । [4.153] एताभिर्वा एतदास्रवदास्रवति । [4.154] तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ बृह. ४,२.३ ॥ [4.155] तस्य प्राची दिक्प्राञ्चः प्राणाः । [4.156] दक्षिणा दिग्दक्षिणे प्राणाः । [4.157] प्रतीची दिक्प्रत्यञ्चः प्राणाः । [4.158] उदीची दिगुदञ्चः प्राणाः । [4.159] ऊर्ध्वा दिगूर्ध्वाः प्राणाः । [4.160] अवाची दिगवाञ्चः प्राणाः । [4.161] सर्वा दिशः सर्वे प्राणाः । [4.162] स एष नेति नेत्यात्मा । [4.163] अगृह्यो न हि गृह्यते । [4.164] अशीर्यो न हि शीर्यते । [4.165] असङ्गो न हि सज्यते । [4.166] असितो न व्यथते । [4.167] न रिष्यति । [4.168] अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । [4.169] स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे । [4.170] नमस्तेऽस्तु । [4.171] इमे विदेहा अयमहमस्मीति ॥ बृह. ४,२.४ ॥ [4.172] (ज्योतिर्ब्राह्मणम्) [4.173] जनकं ह वैदेहं याज्ञवल्क्यो जगाम । [4.174] समेनेन वदिष्य इति । [4.175] अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते । [4.176] तस्मै ह याज्ञवल्क्यो वरं ददौ । [4.177] स ह कामप्रश्नमेव वव्रे । [4.178] तं हास्मै ददौ । [4.179] तं ह सम्राडेव पूर्वः पप्रच्छ ॥ ४,३.१ ॥ [4.180] याज्ञवल्क्य किंज्योतिरयं पुरुष इति । [4.181] आदित्यज्योतिः सम्राडिति होवाच । [4.182] आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । [4.183] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ४,३.२ ॥ [4.184] अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति । [4.185] चन्द्रमा एवास्य ज्योतिर्भवतीति । [4.186] चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । [4.187] एवमेवैतद्याज्ञवल्क्य ॥ ४,३.३ ॥ [4.188] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति । [4.189] अग्निरेवास्य ज्योतिर्भवतीति । [4.190] अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । [4.191] एवमेवैतद्याज्ञवल्क्य ॥ ४,३.४ ॥ [4.192] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति । [4.193] वागेवास्य ज्योतिर्भवतीति । [4.194] वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति । [4.195] तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति । [4.196] एवमेवैतद्याज्ञवल्क्य ॥ बृह. ४,३.५ ॥ [4.197] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति । [4.198] आत्मैवास्य ज्योतिर्भवतीति । [4.199] आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ४,३.६ ॥ [4.200] कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः । [4.201] स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव । [4.202] स हि स्वप्नो भूत्वेमं लोकमतिक्रामति अद्द्. मृत्यो रूपाणि ॥ बृह. ४,३.७ ॥ [4.203] स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते । [4.204] स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ४,३.८ ॥ [4.205] तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः । [4.206] इदं च परलोकस्थानं च । [4.207] सन्ध्यं तृतीयं स्वप्नस्थानम् । [4.208] तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च । [4.209] अथ यथाक्रमोऽयं परलोकस्थाने भवति । [4.210] तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति । [4.211] स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । [4.212] अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ बृह. ४,३.९ ॥ [4.213] न तत्र रथा न रथयोगा न पन्थानो भवन्ति । [4.214] अथ रथान् रथयोगान् पथः सृजते । [4.215] न तत्रानन्दा मुदः प्रमुदो भवन्ति । [4.216] अथानन्दान्मुदः प्रमुदः सृजते । [4.217] न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति । [4.218] अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते । [4.219] स हि कर्ता ॥ ४,३.१० ॥ [4.220] तदेते श्लोका भवन्ति [4.221] स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । [4.222] शुक्रमादाय पुनरैति स्थानं हिरण्मयःपुरुष एकहंसः ॥ ४,३.११ ॥ [4.223] प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । [4.224] स ईयतेऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ बृह. ४,३.१२ ॥ [4.225] स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । [4.226] उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ ४,३.१३ ॥ [4.227] आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । [4.228] तं नायतं बोधयेदित्याहुः । [4.229] दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते । [4.230] अथो खल्वाहुर्जागरितदेश एवास्यैस इति । [4.231] यानि ह्येव जाग्रत्पश्यति तानि सुप्त इति । [4.232] अत्रायं पुरुषः स्वयंज्योतिर्भवति । [4.233] सोऽहं भगवते सहस्रं ददामि । [4.234] अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ बृह. ४,३.१४ ॥ [4.235] स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव । [4.236] स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति । [4.237] असङ्गो ह्ययं पुरुष इति । [4.238] एवमेवैतत्याज्ञवल्क्य । [4.239] सोऽहं भगवते सहस्रं ददामि । [4.240] अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४,३.१५ ॥ [4.241] स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव । [4.242] स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति । [4.243] असङ्गो ह्ययं पुरुष इति । [4.244] एवमेवैतत्याज्ञवल्क्य । [4.245] सोऽहं भगवते सहस्रं ददामि । [4.246] अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ बृह. ४,३.१६ ॥ [4.247] स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ ४,३.१७ ॥ [4.248] तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च । [4.249] एवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ ४,३.१८ ॥ [4.250] तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते । [4.251] एवमेवायं पुरुष एतस्मा अन्ताय धवति । [4.252] यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ बृह. ४,३.१९ ॥ [4.253] ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति । [4.254] शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः । [4.255] अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति । [4.256] यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते । [4.257] अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते । [4.258] सोऽस्य परमो लोकः ॥ ४,३.२० ॥ [4.259] तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माभयं रूपम् । [4.260] तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् । [4.261] एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् । [4.262] तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ ४,३.२१ ॥ [4.263] अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । [4.264] अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसः । [4.265] अनन्वागतं पुण्येनानन्वागतं पापेन । [4.266] तीर्णो हि तदा सर्वाञ्शोकान् हृदयस्य भवति ॥ बृह. ४,३.२२ ॥ [4.267] यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति । [4.268] न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् । [4.269] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ ४,३.२३ ॥ [4.270] यद्वै तन्न जिघ्रति जिघ्रन् वै तन्न जिघ्रति । [4.271] न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.272] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ ४,३.२४ ॥ [4.273] यद्वै तन्न रसयति रसयन् वै तन्न रसयति । [4.274] न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.275] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ बृह. ४,३.२५ ॥ [4.276] यद्वै तन्न वदति वदन् वै तन्न वदति । [4.277] न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.278] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ ४,३.२६ ॥ [4.279] यद्वै तन्न शृणोति शृण्वन् वै तन्न शृणोति । [4.280] न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.281] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ ४,३.२७ ॥ [4.282] यद्वै तन्न मनुते मन्वानो वै तन्न मनुते । [4.283] न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.284] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ बृह. ४,३.२८ ॥ [4.285] यद्वै तन्न स्पृशति स्पृशन् वै तन्न स्पृशति । [4.286] न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.287] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ ४,३.२९ ॥ [4.288] यद्वै तन्न विजानाति विजानन् वै तन्न विजानाति । [4.289] न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् । [4.290] न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ४,३.३० ॥ [4.291] यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ४,३.३१ ॥ [4.292] सलिल एको द्रष्टाद्वैतो भवति । [4.293] एष ब्रह्मलोकः सम्राट् । [4.294] इति हैनमनुशशास याज्ञवल्क्यः । [4.295] एषास्य परमा गतिः । [4.296] एषास्य परमा संपत् । [4.297] एषोऽस्य परमो लोकः । [4.298] एषोऽस्य परम आनन्दः । [4.299] एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ बृह. ४,३.३२ ॥ [4.300] स यो मनूष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । [4.301] अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः । [4.302] अथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः । [4.303] अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते । [4.304] अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः । [4.305] यश्च श्रोत्रियोऽवृजिनोऽकामहतः । [4.306] अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः । [4.307] यश्च श्रोत्रियोऽवृजिनोऽकामहतः । [4.308] अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः । [4.309] यश्च श्रोत्रियोऽवृजिनोऽकामहतः । [4.310] अथैष एव परम आनन्दः । [4.311] एष ब्रह्मलोकः सम्राट् । [4.312] इति होवाच याज्ञवल्क्यः । [4.313] सोऽहं भगवते सहस्रं ददामि । [4.314] अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । [4.315] अत्र ह याज्ञवल्क्यो बिभयां चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ बृह. ४,३.३३ ॥ [4.316] स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ४,३.३४ ॥ [4.317] तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति । [4.318] यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४,३.३५ ॥ [4.319] स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति । [4.320] तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यते । [4.321] एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ४,३.३६ ॥ [4.322] तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति । [4.323] एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ४,३.३७ ॥ [4.324] तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति । [4.325] एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति । [4.326] यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ बृह. ४,३.३८ ॥ [4.327] (शारीरकब्राह्मणम्) [4.328] स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति । [4.329] अथैनमेते प्राणा अभिसमायन्ति । [4.330] स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । [4.331] स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते । [4.332] अथारूपज्ञो भवति ॥ ४,४.१ ॥ [4.333] एकीभवति न पश्यतीत्याहुः । [4.334] एकीभवति न जिघ्रतीत्याहुः । [4.335] एकीभवति न रसयतीत्याहुः । [4.336] एकीभवति न वदतीत्याहुः । [4.337] एकीभवति न शृणोतीत्याहुः । [4.338] एकीभवति न मनुत इत्याहुः । [4.339] एकीभवति न स्पृशतीत्याहुः । [4.340] एकीभवति न विजानातीत्याहुः । [4.341] तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । [4.342] तेन प्रद्योतेनैष आत्मा निष्क्रामति । [4.343] चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः । [4.344] तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । [4.345] प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति । [4.346] सविज्ञनो भवति । [4.347] संजानमेवान्ववक्रामति । [4.348] तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ बृह. ४,४.२ ॥ [4.349] तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति । [4.350] एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ४,४.३ ॥ [4.351] तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते । [4.352] एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते । [4.353] पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ बृह. ४,४.४ ॥ [4.354] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः । [4.355] तद्यदेतदिदंमयोऽदोमय इति । [4.356] यथाकारी यथाचारी तथा भवति । [4.357] साधुकारी साधुर्भवति । [4.358] पापकारी पापो भवति । [4.359] पुण्यः पुण्येन कर्मणा पापः पापेन । [4.360] अथो खल्वाहुः । [4.361] काममय एवायं पुरुष इति । [4.362] स यथाकामो भवति तत्क्रतुर्भवति । [4.363] यत्क्रतुर्भवति तत्कर्म कुरुते । [4.364] यत्कर्म कुरुते तदभिसंपद्यते ॥ ४,४.५ ॥ [4.365] तदेष श्लोको भवति [4.366] तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । [4.367] प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । [4.368] तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे । [4.369] इति नु कामयमानः । [4.370] अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति । [4.371] ब्रह्मैव सन् ब्रह्माप्येति ॥ बृह. ४,४.६ ॥ [4.372] तदेष श्लोको भवति [4.373] यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । [4.374] अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । [4.375] तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत । [4.376] एवमेवेदं शरीरं शेते । [4.377] अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव । [4.378] सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ४,४.७ ॥ [4.379] तदेते श्लोका भवन्ति [4.380] अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । [4.381] तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ४,४.८ ॥ [4.382] तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । [4.383] एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ बृह. ४,४.९ ॥ [4.384] अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । [4.385] ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ४,४.१० ॥ [4.386] अनन्दा नाम ते लोका अन्धेन तमसावृताः । [4.387] तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ ४,४.११ ॥ [4.388] आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । [4.389] किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ ४,४.१२ ॥ [4.390] यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः । [4.391] स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ ४,४.१३ ॥ [4.392] इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । [4.393] ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ बृह. ४,४.१४ ॥ [4.394] यदैतमनुपश्यत्यत्मानं देवमङ्जसा । [4.395] ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ ४,४.१५ ॥ [4.396] यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । [4.397] तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ ४,४.१६ ॥ [4.398] यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । [4.399] तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ ४,४.१७ ॥ [4.400] प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । [4.401] ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ ४,४.१८ ॥ [4.402] मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन । [4.403] मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। बृह. ४,४.१९ ॥ [4.404] एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । [4.405] विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ ४,४.२० ॥ [4.406] तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । [4.407] नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ ४,४.२१ ॥ [4.408] स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु । [4.409] य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । [4.410] सर्वस्य वशी । [4.411] सर्वस्येशानः । [4.412] सर्वस्याधिपतिः । [4.413] स न साधुना कर्मणा भूयान् । [4.414] नो एवासाधुना कनीयान् । [4.415] एष सर्वेश्वरः । [4.416] एष भूताधिपतिः । [4.417] एष भूतपालः । [4.418] एष सेतुर्विधरण एषां लोकानामसंभेदाय । [4.419] तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । [4.420] एतमेव विदित्वा मुनिर्भवति । [4.421] एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ बृह. ४,४.२२ ॥ [4.422] तदेतदृचाभ्युक्तम् [4.423] एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । [4.424] तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । [4.425] तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति । [4.426] सर्वमात्मानं पश्यति । [4.427] नैनं पाप्मा तरति । [4.428] सर्वं पाप्मानं तरति । [4.429] नैनं पाप्मा तपति । [4.430] सर्वं पाप्मानं तपति । [4.431] विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति । [4.432] एष ब्रह्मलोकः सम्राट् । [4.433] एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः । [4.434] सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ बृह. ४,४.२३ ॥ [4.435] स वा एष महानज आत्मान्नादो वसुदानः । [4.436] विन्दते वसु य एवं वेद ॥ ४,४.२४ ॥ [4.437] स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म । [4.438] अभयं वै ब्रह्म । [4.439] अभयं हि वै ब्रह्म भवति य एवं वेद ॥ ४,४.२५ ॥ [4.440] (याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम्) [4.441] अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च । [4.442] तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव । [4.443] स्त्रीप्रज्ञैव तर्हि कात्यायनी । [4.444] अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ ४,५.१ ॥ [4.445] मैत्रेयीति होवाच याज्ञवल्क्यः । [4.446] प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि । [4.447] हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ बृह. ४,५.२ ॥ [4.448] सा होवाच मैत्रेयी [4.449] यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति । [4.450] नेति होवाच याज्ञवल्क्यः । [4.451] यथैवोपकरणवतां जीवितम् । [4.452] तथैव ते जीवितं स्यात् । [4.453] अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ४,५.३ ॥ [4.454] सा होवाच मैत्रेयी [4.455] येनाहं नामृता स्यां किमहं तेन कुर्याम् । [4.456] यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ४,५.४ ॥ [4.457] स होवाच याज्ञवल्क्यः [4.458] प्रिया वै खलु नो भवती सती प्रियमवृधत् । [4.459] हन्त तर्हि । [4.460] भवत्येतद्व्याख्यास्यामि ते । [4.461] व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बृह. ४,५.५ ॥ [4.462] स होवाच । [4.463] न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । [4.464] न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । [4.465] न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । [4.466] न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । [4.467] न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति । [4.468] न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । [4.469] न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । [4.470] न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । [4.471] न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । [4.472] न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । [4.473] न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । [4.474] न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । [4.475] आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । [4.476] आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ बृह. ४,५.६ ॥ [4.477] ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद । [4.478] क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । [4.479] लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । [4.480] देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । [4.481] वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद । [4.482] भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । [4.483] सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । [4.484] इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ४,५.७ ॥ [4.485] स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । [4.486] दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ४,५.८ ॥ [4.487] स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । [4.488] शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ४,५.९ ॥ [4.489] स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय । [4.490] वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ बृह. ४,५.१० ॥ [4.491] स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि । [4.492] अस्यैवैतानि सर्वाणि निश्वसितानि ॥ बृह. ४,५.११ ॥ [4.493] स यथा सर्वासामपां समुद्र एकायनम् । [4.494] एवं सर्वेषां स्पर्शानां त्वगेकायनम् । [4.495] एवं सर्वेषां गन्धानां नासिके एकायनम् । [4.496] एवं सर्वेषां रसानां जिह्वैकायनम् । [4.497] एवं सर्वेषां रूपाणां चक्षुरेकायनम् । [4.498] एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् । [4.499] एवं सर्वेषां संकल्पानां मन एकायनम् । [4.500] एवं सर्वासां विद्यानां हृदयमेकायनम् । [4.501] एवं सर्वेषां कर्मणां हस्तावेकायनम् । [4.502] एवं सर्वेषामानन्दानामुपस्थ एकायनम् । [4.503] एवं सर्वेषां विसर्गाणां पायुरेकायनम् । [4.504] एवं सर्वेषामध्वनां पादावेकायनम् । [4.505] एवं सर्वेषां वेदानां वागेकायनम् ॥ ४,५.१२ ॥ [4.506] स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव । [4.507] एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव । [4.508] एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति । [4.509] न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । [4.510] इति होवाच याज्ञवल्क्यः ॥ बृह. ४,५.१३ ॥ [4.511] सा होवाच मैत्रेयी [4.512] अत्रैव मा भगवान्मोहान्तमापीपदत् । [4.513] न वा अहमिमं विजानामीति । [4.514] स होवाच न वा अरेऽहं मोहं ब्रवीमि । [4.515] अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ ४,५.१४ ॥ [4.516] यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति । [4.517] यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् । [4.518] येनेदं सर्वं विजानाति तं केन विजानीयात् । [4.519] स एष नेति नेत्यात्मा । [4.520] अगृह्यो न हि गृह्यते । [4.521] अशीर्यो न हि शीर्यते । [4.522] असङ्गो न हि सज्यते । [4.523] असितो न व्यथते न रिष्यति । [4.524] विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि । [4.525] एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ बृह. ४,५.१५ ॥ [4.526] अथ वंशः । [4.527] पौतिमाष्यो गौपवनात् । [4.528] गौपवनः पौतिमाष्यात् । [4.529] पौतिमाष्यो गौपवनात् । [4.530] गौपवनः कौशिकात् । [4.531] कौशिकः कौण्डिन्यात् । [4.532] कौण्डिन्यः शाण्डिल्यात् । [4.533] शाण्डिल्यः कौशिकाच्च गौतमाच्च । [4.534] गौतमः ॥ बृह. ४,६.१ ॥ [4.535] अग्निवेश्यात् । [4.536] अग्निवेश्यो गार्ग्यात् । [4.537] गार्ग्यो गार्ग्यात् । [4.538] गार्ग्यो गौतमात् । [4.539] गौतमः सैतवात् । [4.540] सैतवः पाराशर्यायणात् । [4.541] पाराशर्यायणो गार्ग्यायणात् । [4.542] गार्ग्यायण उद्दालकायनात् । [4.543] उद्दालकायनो जाबालायनात् । [4.544] जाबालायनो माध्यन्दिनायनात् । [4.545] माध्यन्दिनायनः सौकरायणात् । [4.546] सौकरायणः काषायणात् । [4.547] काषायणः सायकायनात् । [4.548] साकायनः कौशिकायनेः [4.549] कौशिकायनिः ॥ बृह. ४,६.२ ॥ [4.550] घृतकौशिकात् । [4.551] घृतकौशिकः पाराशर्यात् । [4.552] पाराशर्यः पाराशर्यात् । [4.553] पाराशर्यो जातुकर्ण्यात् । [4.554] जातुकर्ण्य आसुरायणाच्च यस्काच्च । [4.555] आसुरायणस्त्रैवणेः । [4.556] त्रैवणिरौपजन्धनेः । [4.557] औपजन्धनिरासुरेः । [4.558] आसुरिर्भारद्वाजात् । [4.559] भारद्वाज आत्रेयात् । [4.560] आत्रेयो माण्टेः । [4.561] माण्टिर्गौतमात् । [4.562] गौतमो गौतमात् । [4.563] गौतमो वात्स्यात् । [4.564] वात्स्यः शाण्डिल्यात् । [4.565] शाण्डिल्यः कैशोर्यात्काप्यात् । [4.566] कैशोर्यः काप्यः कुमारहरितात् । [4.567] कुमारहरितो गालवात् । [4.568] गालवो विदर्भीकौण्डिन्यात् । [4.569] विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । [4.570] वत्सनपाद्बाभ्रवः पथः सौभरात् । [4.571] पन्थाः सौभरोऽयास्यादङ्गिरसात् । [4.572] अयास्य आङ्गिरस आभुतेस्त्वाष्ट्रात् । [4.573] आभुतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् । [4.574] विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् । [4.575] अश्विनौ दधिच आथर्वणात् । [4.576] दध्यङ्ङाथर्वणोऽथर्वणो दैवात् । [4.577] अथर्वा दैवो मृत्योः प्राध्वंसनात् । [4.578] मृत्युः प्राध्वंसनः प्राध्वंसनात् । [4.579] प्राध्वंसनः एकर्षेः । [4.580] एकर्षिर्विप्रजित्तेः । [4.581] विप्रजित्तिर्व्यष्टेर् । [4.582] व्यष्टिः सनारोः । [4.583] सनारुः सनातनात् । [4.584] सनातनः सनगात् । [4.585] सनगः परमेष्टिणः । [4.586] परमेष्टी ब्रह्मणः । [4.587] ब्रह्म स्वयम्भु । [4.588] ब्रह्मणे नमः ॥ बृह. ४,६.३ ॥ [4.589] इति षष्ठं ब्राह्मणम् ॥ [4.590] ॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥ ## Fifth Adhyāya [5.1] अथ पञ्चमोऽध्यायः । [5.2] प्रथमं ब्राह्मणम् । (शांतिब्राह्मणम्) [5.3] पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । [5.4] पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । [5.5] खं ब्रह्म । [5.6] खं पुराणम् । [5.7] वायुरं खम् । [5.8] इति ह स्माह कौरव्यायणीपुत्रः । [5.9] वेदोऽयं ब्राह्मणा विदुः । [5.10] वेदैनेन यद्वेदितव्यम् ॥ ५,१.१ ॥ [5.11] (दमदानदयेति त्रिकोपदेशब्राह्मणम्) [5.12] त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः । [5.13] देवा मनुष्या असुराः । [5.14] उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । [5.15] तेभ्यो हैतदक्षरमुवाच द इति । [5.16] व्यज्ञासिष्टा३ इति । [5.17] व्यज्ञासिष्मेति होचुः । [5.18] दाम्यतेति न आत्थेति । [5.19] ओमिति होवाच व्यज्ञासिष्टेति ॥ बृह. ५,२.१ ॥ [5.20] अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । [5.21] तेभ्यो हैतदेवाक्षरमुवाच द इति । [5.22] व्यज्ञासिष्टा३ इति । [5.23] व्यज्ञासिष्मेति होचुः । [5.24] दत्तेति न आत्थेति । [5.25] ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.२ ॥ [5.26] अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । [5.27] तेभ्यो हैतदेवाक्षरमुवाच द इति । [5.28] व्यज्ञासिष्टा३ इति । [5.29] व्यज्ञासिष्मेति होचुः । [5.30] दयध्वमिति न आत्थेति । [5.31] ओमिति होवाच व्यज्ञासिष्टेति । [5.32] तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति । [5.33] दम्यत दत्त दयध्वमिति । [5.34] तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ बृह. ५,२.३ ॥ [5.35] एष प्रजापतिर्यद्धृदयम् । [5.36] एतद्ब्रह्म । [5.37] एतत्सर्वम् । [5.38] तदेतत्त्र्यक्षरं हृदयमिति । [5.39] हृ इत्येकमक्षरम् । [5.40] अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । [5.41] द इत्येकमक्षरम् । [5.42] ददत्यस्मै स्वाश्चान्ये च य एवं वेद । [5.43] यमित्येकमक्षरम् । [5.44] एति स्वर्गं लोकं य एवं वेद ॥ ५,३.१ ॥ [5.45] (हृदयब्रह्मणः सत्यमित्युपासनाविधिब्राह्मणम् ) [5.46] तद्वै तदेतदेव तदास । [5.47] सत्यमेव । [5.48] स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । [5.49] सत्यं ह्येव ब्रह्म ॥ बृह. ५,४.१ ॥ [5.50] (सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम् ) [5.51] आप एवेदमग्र आसुः । [5.52] ता आपः सत्यमसृजन्त । [5.53] सत्यं ब्रह्म । [5.54] ब्रह्म प्रजापतिम् । [5.55] प्रजापतिर्देवान् । [5.56] ते देवाः सत्यमेवोपासते । [5.57] तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् । [5.58] तीत्येकमक्षरम् । [5.59] यमित्येकमक्षरम् । [5.60] प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् । [5.61] तदेतदनृतमुभयतः सत्येन परिगृहीतम् । [5.62] सत्यभूयमेव भवति । [5.63] नैवंविद्वांसमनृतं हिनस्ति ॥ बृह. ५,५.१ ॥ [5.64] तद्यत्तत्सत्यमसौ स आदित्यः । [5.65] य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ । [5.66] रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् । [5.67] स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति । [5.68] नैनमेते रश्मयः प्रत्यायन्ति ॥ ५,५.२ ॥ [5.69] य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः । [5.70] एकं शिर एकमेतदक्षरम् । [5.71] भुव इति बाहू । [5.72] द्वौ बाहू द्वे एते अक्षरे । [5.73] स्वरिति प्रतिष्ठा । [5.74] द्वे प्रतिष्ठे द्वे एते अक्षरे । [5.75] तस्योपनिषदहरिति । [5.76] हन्ति पाप्मानं जहाति च य एवं वेद ॥ बृह. ५,५.३ ॥ [5.77] योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः । [5.78] एकं शिर एकमेतदक्षरम् । [5.79] भुव इति बाहू । [5.80] द्वौ बाहू द्वे एते अक्षरे । [5.81] स्वरिति प्रतिष्ठा । [5.82] द्वे प्रतिष्ठे द्वे एते अक्षरे । [5.83] तस्योपनिषदहमिति । [5.84] हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.४ ॥ [5.85] मनोमयोऽयं पुरुषो भाःसत्यः । [5.86] तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । [5.87] स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ ५,६.१ ॥ [5.88] विद्युद्ब्रह्मेत्याहुः । [5.89] विदानाद्विद्युत् । [5.90] विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । [5.91] विद्युद्ध्येव ब्रह्म ॥ बृह. ५,७.१ ॥ [5.92] वाचं धेनुमुपासीत । [5.93] तस्याश्चत्वारः स्तनाः । [5.94] स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः । [5.95] तस्यै द्वौ स्तनौ देवा उपजीवन्ति । [5.96] स्वाहाकारं च वषट्कारं च । [5.97] हन्तकारं मनुष्याः । [5.98] स्वधाकारं पितरः । [5.99] तस्याः प्राण ऋषभो मनो वत्सः ॥ ५,८.१ ॥ [5.100] अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे । [5.101] येनेदमन्नं पच्यते । [5.102] यदिदमद्यते । [5.103] तस्यैष घोषो भवति । [5.104] यमेतत्कर्णावपिधाय शृणोति । [5.105] स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ बृह. ५,९.१ ॥ [5.106] (सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम् ) [5.107] यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति । [5.108] तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । [5.109] तेन स ऊर्ध्व आक्रमते । [5.110] स आदित्यमागच्छति । [5.111] तस्मै स तत्र विजिहीते । [5.112] यथा लम्बरस्य खम् । [5.113] तेन स ऊर्ध्व आक्रमते । [5.114] स चन्द्रमसमागच्छति । [5.115] तस्मै स तत्र विजिहीते । [5.116] यथा दुन्दुभेः खम् । [5.117] तेन स ऊर्ध्व आक्रमते । [5.118] स लोकमागच्छत्यशोकमहिमम् । [5.119] तस्मिन् वसति शाश्वतीः समाः ॥ बृह. ५,१०.१ ॥ [5.120] एतद्वै परमं तपो यद्व्याहितस्तप्यते । [5.121] परमं हैव लोकं जयति य एवं वेद । [5.122] एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति । [5.123] परमं हैव लोकं जयति य एवं वेद । [5.124] एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । [5.125] परमं हैव लोकं जयति य एवं वेद ॥ ५,११.१ ॥ [5.126] अन्नं ब्रह्मेत्येक आहुः । [5.127] तन्न तथा । [5.128] पूयति वा अन्नमृते प्राणात् । [5.129] प्राणो ब्रह्मेत्येक आहुः । [5.130] तन्न तथा । [5.131] शुष्यति वै प्रण ऋतेऽन्नात् । [5.132] एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । [5.133] तद्ध स्माह प्रातृदः पितरम् । [5.134] किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति । [5.135] स ह स्माह पाणिना मा प्रातृद । [5.136] कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । [5.137] तस्मा उ हैतदुवाच वीति । [5.138] अन्नं वै वि । [5.139] अन्ने हीमानि सर्वाणि भूतानि विष्टानि । [5.140] रमिति । [5.141] प्राणो वै रम् । [5.142] प्राणे हीमानि सर्वाणि भूतानि रमन्ते । [5.143] सर्वाणि ह वा अस्मिन् भूतानि विशन्ति । [5.144] सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ५,१२.१ ॥ [5.145] (प्राणोपासनाब्राह्मणम्) [5.146] उक्थम् । [5.147] प्राणो वा उक्थम् । [5.148] प्राणो हीदं सर्वमुत्थापयति । [5.149] उद्धस्मादुक्थविद्वीरस्तिष्ठति । [5.150] उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.१ ॥ [5.151] यजुः । [5.152] प्राणो वै यजुः । [5.153] प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । [5.154] युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय । [5.155] यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.२ ॥ [5.156] साम । [5.157] प्राणो वै साम । [5.158] प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । [5.159] सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते । [5.160] साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.३ ॥ [5.161] क्षत्रम् । [5.162] प्राणो वै क्षत्रम् । [5.163] प्राणो हि वै क्षत्रम् । [5.164] त्रायते हैनं प्राणः क्षणितोः । [5.165] प्र क्षत्रमत्रमाप्नोति । [5.166] क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.४ ॥ [5.167] (गायत्रब्रह्मोपासनाब्राह्मणम् ) [5.168] भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । [5.169] अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । [5.170] एतदु हैवास्या एतत् । [5.171] स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.१ ॥ [5.172] ऋचो यजूषि सामानीत्यष्टावक्षराणि । [5.173] अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । [5.174] एतदु हैवास्या एतत् । [5.175] स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.२ ॥ [5.176] प्राणोऽपानो व्यान इत्यष्टावक्षराणि । [5.177] अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । [5.178] एतदु हैवास्या एतत् । [5.179] स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद । [5.180] अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । [5.181] यद्वै चतुर्थं तत्तुरीयम् । [5.182] दर्शतं पदमिति ददृश इव ह्येषः । [5.183] परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति । [5.184] एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ बृह. ५,१४.३ ॥ [5.185] सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । [5.186] तद्वै तत्सत्ये प्रतिष्ठितम् । [5.187] चक्षुर्वै सत्यम् । [5.188] चक्षुर्हि वै सत्यम् । [5.189] तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति । [5.190] य एवं ब्रूयादहमदर्शमिति । [5.191] तस्मा एव श्रद्दध्याम । [5.192] तद्वै तत्सत्यं बले प्रतिष्ठितम् । [5.193] प्राणो वै बलम् । [5.194] तत्प्राणे प्रतिष्ठितम् । [5.195] तस्मादाहुर्बलं सत्यादोगीय इति । [5.196] एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । [5.197] सा हैषा गयांस्तत्रे । [5.198] प्राणा वै गयाः । [5.199] तत्प्राणास्तत्रे । [5.200] तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । [5.201] स यामेवामूं सावित्रीमन्वाहैषैव सा । [5.202] स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५,१४.४ ॥ [5.203] तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः । [5.204] वागनुष्टुप् । [5.205] एतद्वाचमनुब्रूम इति । [5.206] न तथा कुर्यात् । [5.207] गायत्रीमेव सावित्रीमानुब्रूयात् । [5.208] यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ बृह. ५,१४.५ ॥ [5.209] स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् । [5.210] अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् । [5.211] अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् । [5.212] अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । [5.213] नैव केन चनाप्यम् । [5.214] कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५,१४.६ ॥ [5.215] तस्या उपस्थानम् । [5.216] गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि । [5.217] अपदसि । [5.218] न हि पद्यसे । [5.219] नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । [5.220] असावदो मा प्रापदिति । [5.221] यं द्विष्यादसावस्मै कामो मा समर्धीति वा । [5.222] न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते । [5.223] अहमदः प्रापमिति वा ॥ बृह. ५,१४.७ ॥ [5.224] एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः । [5.225] अथ कथं हस्तीभूतो वहसीति । [5.226] मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच । [5.227] तस्या अग्निरेव मुखम् । [5.228] यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति । [5.229] एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५,१४.८ ॥ [5.230] हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । [5.231] तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । [5.232] पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । [5.233] यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि । [5.234] वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । [5.235] ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । [5.236] अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । [5.237] युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ बृह. ५,१५.१ ॥ [5.238] इति पञ्चदशं ब्राह्मणम् ॥ [5.239] ॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥ ## Sixth Adhyāya [6.1] अथ षष्ठोऽध्यायः । [6.2] प्रथमं ब्राह्मणम् [6.3] यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । [6.4] प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । [6.5] ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । [6.6] अपि च येषां बुभूषति । [6.7] य एवं वेद ॥ ६,१.१ ॥ [6.8] यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । [6.9] वाग्वै वसिष्ठा । [6.10] वसिष्ठः स्वानां भवति । [6.11] अपि च येषां बुभूषति । [6.12] य एवं वेद ॥ ६,१.२ ॥ [6.13] यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे । [6.14] प्रतितिष्ठति दुर्गे । [6.15] चक्षुर्वै प्रतिष्ठा । [6.16] चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । [6.17] प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । [6.18] य एवं वेद ॥ बृह. ६,१.३ ॥ [6.19] यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते । [6.20] श्रोत्रं वै संपत् । [6.21] श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः । [6.22] सं हास्मै पद्यते यं कामं कामयते । [6.23] य एवं वेद ॥ ६,१.४ ॥ [6.24] यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् । [6.25] मनो वा आयतनम् । [6.26] आयतनं स्वानां भवत्यायतनं जनानाम् । [6.27] य एवं वेद ॥ ६,१.५ ॥ [6.28] यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः । [6.29] रेतो वै प्रजातिः । [6.30] प्रजायते ह प्रजया पशुभिः । [6.31] य एवं वेद ॥ बृह. ६,१.६ ॥ [6.32] ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः । [6.33] तद्धोचुः को नो वसिष्ठ इति । [6.34] तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ६,१.७ ॥ [6.35] वाग्घोच्चक्राम । [6.36] सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । [6.37] ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । [6.38] प्रविवेश ह वाक् ॥ ६,१.८ ॥ [6.39] चक्षुर्होच्चक्राम । [6.40] तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । [6.41] ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । [6.42] प्रविवेश ह चक्षुः ॥ बृह. ६,१.९ ॥ [6.43] श्रोत्रं होच्चक्राम । [6.44] तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । [6.45] ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । [6.46] प्रविवेश ह श्रोत्रम् ॥ ६,१.१० ॥ [6.47] मनो होच्चक्राम । [6.48] तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । [6.49] ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । [6.50] प्रविवेश ह मनः ॥ ६,१.११ ॥ [6.51] रेतो होच्चक्राम । [6.52] तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । [6.53] ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति । [6.54] प्रविवेश ह रेतः ॥ बृह. ६,१.१२ ॥ [6.55] अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह । [6.56] ते होचुः मा भगव उत्क्रमीः । [6.57] न वै शक्ष्यामस्त्वदृते जीवितुमिति । [6.58] तस्यो मे बलिं कुरुतेति । [6.59] तथेति ॥ ६,१.१३ ॥ [6.60] सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति । [6.61] यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः । [6.62] यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् । [6.63] यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः । [6.64] यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः । [6.65] तस्यो मे किमन्नं किं वास इति । [6.66] यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् । [6.67] आपो वास इति । [6.68] न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद । [6.69] तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति । [6.70] एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ बृह. ६,१.१४ ॥ [6.71] इति प्रथमं ब्राह्मणम् ॥ [6.72] द्वितीयं ब्राह्मण् (पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्) [6.73] श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम । [6.74] स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । [6.75] तमुदीक्ष्याभ्युवाद कुमारा३ इति । [6.76] स भो३ इति प्रतिशुश्राव । [6.77] अनुशिष्टो न्वसि पित्रेति । [6.78] ओमिति होवाच ॥ बृह. ६,२.१ ॥ [6.79] वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । [6.80] नेति होवाच । [6.81] वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । [6.82] नेति हैवोवाच । [6.83] वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति । [6.84] नेति हैवोवाच । [6.85] वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । [6.86] नेति हैवोवाच । [6.87] वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । [6.88] यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । [6.89] अपि हि न ऋषेर्वचः श्रुतं [6.90] द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । [6.91] ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । [6.92] नाहमत एकं चन वेदेति होवाच ॥ ६,२.२ ॥ [6.93] अथैनं वसत्योपमन्त्रयां चक्रे । [6.94] अनादृत्य वसतिं कुमारः प्रदुद्राव । [6.95] स आजगाम पितरम् । [6.96] तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति । [6.97] कथं सुमेध इति । [6.98] पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् । [6.99] ततो नैकं चन वेदेति । [6.100] कतमे त इति । [6.101] इम इति ह प्रतीकान्युदाजहार ॥ बृह. ६,२.३ ॥ [6.102] स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् । [6.103] प्रेहि तु तत्र । [6.104] प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । [6.105] भवानेव गच्छत्विति । [6.106] स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास । [6.107] तस्मा आसनमाहृत्योदकमाहारयां चकार । [6.108] अथ हास्मा अर्घ्यं चकार । [6.109] तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ६,२.४ ॥ [6.110] स होवाच प्रतिज्ञतो म एष वरः । [6.111] यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ६,२.५ ॥ [6.112] स होवाच दैवेषु वै गौतम तद्वरेषु । [6.113] मानुषाणां ब्रूहीति ॥ बृह. ६,२.६ ॥ [6.114] स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । [6.115] मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । [6.116] स वै गौतम तीर्थेनेच्छसा इति । [6.117] उपैम्यहं भवन्तमिति । [6.118] वाचा ह स्मैव पूर्व उपयन्ति । [6.119] स होपायनकीर्त्योवास ॥ ६,२.७ ॥ [6.120] स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः । [6.121] यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास । [6.122] तां त्वहं तुभ्यं वक्ष्यामि । [6.123] को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ बृह. ६,२.८ ॥ [6.124] असौ वै लोकोऽग्निर्गौतम । [6.125] तस्यादित्य एव समित् । [6.126] रश्मयो धूमः । [6.127] अहरर्चिः । [6.128] दिशोऽङ्गाराः । [6.129] अवान्तरदिशो विष्फुलिङ्गाः । [6.130] तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । [6.131] तस्या आहुत्यै सोमो राजा संभवति ॥ ६,२.९ ॥ [6.132] पर्जन्यो वा अग्निर्गौतम । [6.133] तस्य संवत्सर एव समित् । [6.134] अभ्राणि धूमः । [6.135] विद्युदर्चिः । [6.136] अशनिरङ्गाराः । [6.137] ह्रादुनयो विष्फुलिङ्गाः । [6.138] तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । [6.139] तस्या आहुत्यै वृष्टिः संभवति ॥ बृह. ६,२.१० ॥ [6.140] अयं वै लोकोऽग्निर्गौतम । [6.141] तस्य पृथिव्येव समित् । [6.142] अग्निर्धूमः । [6.143] रात्रिरर्चिः । [6.144] चन्द्रमा अङ्गाराः । [6.145] नक्षत्राणि विष्फुलिङ्गाः । [6.146] तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । [6.147] तस्या आहुत्या अन्नं संभवति ॥ ६,२.११ ॥ [6.148] पुरुषो वा अग्निर्गौतम । [6.149] तस्य व्यात्तमेव समित् । [6.150] प्राणो धूमः । [6.151] वागर्चिः । [6.152] चक्षुरङ्गाराः । [6.153] श्रोत्रं विष्फुलिङ्गाः । [6.154] तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । [6.155] तस्या आहुत्यै रेतः संभवति ॥ बृह. ६,२.१२ ॥ [6.156] योषा वा अग्निर्गौतम । [6.157] तस्या उपस्थ एव समित् । [6.158] लोमानि धूमः । [6.159] योनिरर्चिः । [6.160] यदन्तः करोति तेऽङ्गाराः । [6.161] अभिनन्दा विष्फुलिङ्गाः । [6.162] तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । [6.163] तस्या आहुत्यै पुरुषः संभवति । [6.164] स जीवति यावज्जीवति । [6.165] अथ यदा म्रियते ॥ ६,२.१३ ॥ [6.166] अथैनमग्नये हरन्ति । [6.167] तस्याग्निरेवाग्निर्भवति । [6.168] समित्समित् । [6.169] धूमो धूमः । [6.170] अर्चिरर्चिः । [6.171] अङ्गारा अङ्गाराः । [6.172] विष्फुलिङ्गा विष्फुलिङ्गाः । [6.173] तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । [6.174] तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ बृह. ६,२.१४ ॥ [6.175] ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति । [6.176] अर्चिषोऽहः । [6.177] अह्न आपूर्यमाणपक्षम् । [6.178] आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति । [6.179] मासेभ्यो देवलोकम् । [6.180] देवलोकादादित्यम् । [6.181] आदित्याद्वैद्युतम् । [6.182] तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । [6.183] ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । [6.184] तेषां न पुनरावृत्तिः ॥ बृह. ६,२.१५ ॥ [6.185] अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति । [6.186] धूमाद्रात्रिम् । [6.187] रात्रेरपक्षीयमाणपक्षम् । [6.188] अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति । [6.189] मासेभ्यः पितृलोकम् । [6.190] पितृलोकाच्चन्द्रम् । [6.191] ते चन्द्रं प्राप्यान्नं भवन्ति । [6.192] तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति । [6.193] तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते । [6.194] आकाशाद्वायुम् । [6.195] वायोर्वृष्टिम् । [6.196] वृष्टेः पृथिवीम् । [6.197] ते पृथिवीं प्राप्यान्नं भवन्ति । [6.198] ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । [6.199] लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते । [6.200] अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ ६,२.१६ ॥ [6.201] तृतीयं ब्राह्मणम् (ज्येष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्) [6.202] स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति [6.203] यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । [6.204] तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । [6.205] या तिरश्ची निपद्यसेऽहं विधरणी इति । [6.206] तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ बृह. ६,३.१ ॥ [6.207] ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.208] प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.209] वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.210] चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.211] श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.212] मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.213] रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.२ ॥ [6.214] अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.215] सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.216] भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.217] भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.218] स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.219] भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.220] ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.221] क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.222] भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.223] भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.224] विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.225] सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । [6.226] प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.३ ॥ [6.227] अथैनमभिमृशति भ्रमदसि । [6.228] ज्वलदसि । [6.229] पूर्णमसि । [6.230] प्रस्तब्धमसि । [6.231] एकसभमसि । [6.232] हिङ्कृतमसि । [6.233] हिङ्क्रियमानमसि । [6.234] उद्गीथमसि । [6.235] उद्गीयमानमसि । [6.236] श्रावितमसि । [6.237] प्रत्याश्रावितमसि । [6.238] आर्द्रे संदीप्तमसि । [6.239] विभूरसि । [6.240] प्रभूरसि । [6.241] अन्नमसि । [6.242] ज्योतिरसि । [6.243] निधनमसि । [6.244] संवर्गोऽसीति ॥ ६,३.४ ॥ [6.245] अथैनमुद्यच्छत्यामंस्यामं हि ते महि । [6.246] स हि राजेशानोऽधिपतिः । [6.247] स मां राजेशनोऽधिपतिं करोत्विति ॥ बृह. ६,३.५ ॥ [6.248] अथैनमाचामति [6.249] तत्सवितुर्वरेण्यम् । [6.250] मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । [6.251] माध्वीर्नः सन्त्वोषधीः । [6.252] भूः स्वाहा । [6.253] भर्गो देवस्य धीमहि [6.254] मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । [6.255] मधु द्यौरस्तु नः पिता । [6.256] भुवः स्वाहा । [6.257] धियो यो नः प्रचोदयात् । [6.258] मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । [6.259] माध्वीर्गवो भवन्तु नः । [6.260] स्वः स्वाहा । [6.261] सर्वां च सावित्रीमन्वाह । [6.262] सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति । [6.263] प्रातरादित्यमुपतिष्ठते । [6.264] दिशामेकपुण्डरीकमसि । [6.265] अहं मनुष्याणामेकपुण्डरीकं भूयासमिति । [6.266] यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ बृह. ६,३.६ ॥ [6.267] तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.७ ॥ [6.268] एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.८ ॥ [6.269] एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.९ ॥ [6.270] एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.१० ॥ [6.271] एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.११ ॥ [6.272] एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति । [6.273] तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ बृह. ६,३.१२ ॥ [6.274] चतुरौदुम्बरो भवति । [6.275] औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । [6.276] दश ग्राम्याणि धान्यानि भवन्ति । [6.277] व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । [6.278] तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति । [6.279] आज्यस्य जुहोति ॥ ६,३.१३ ॥ [6.280] इति तृतीयं ब्राह्मणम् ॥ [6.281] चतुर्थं ब्राह्मणम् (पुत्रमन्थकर्मब्राह्मणम्) [6.282] एषां वै भूतानां पृथिवी रसः । [6.283] पृथिव्या आपः । [6.284] अपामोषधयः । [6.285] ओषधीनां पुष्पाणि । [6.286] पुष्पाणां फलानि । [6.287] फलानां पुरुषः । [6.288] पुरुषस्य रेतः ॥ बृह. ६,४.१ ॥ [6.289] स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे । [6.290] तां सृष्ट्वाध उपास्त । [6.291] तस्मात्स्त्रियमध उपासीत । [6.292] स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् । [6.293] तेनैनामभ्यसृजत ॥ ६,४.२ ॥ [6.294] तस्या वेदिरुपस्थः । [6.295] लोमानि बर्हिश् । [6.296] चर्माधिषवणे । [6.297] समिद्धो मध्यतस्तौ मुष्कौ । [6.298] स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति । [6.299] य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते । [6.300] अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ बृह. ६,४.३ ॥ [6.301] एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह । [6.302] एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह । [6.303] एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति । [6.304] बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६,४.४ ॥ [6.305] तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः । [6.306] इदमहं तद्रेत आददे । [6.307] पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः । [6.308] पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् । [6.309] इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६,४.५ ॥ [6.310] अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति । [6.311] श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः । [6.312] तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ बृह. ६,४.६ ॥ [6.313] सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् । [6.314] सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् । [6.315] इन्द्रियेन ते यशसा यश आदद इति । [6.316] अयशा एव भवति ॥ ६,४.७ ॥ [6.317] सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति । [6.318] यशस्विनावेव भवतः ॥ ६,४.८ ॥ [6.319] स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत् [6.320] अङ्गादङ्गात्संभवसि हृदयादधिजायसे । [6.321] स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६,४.९ ॥ [6.322] अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् । [6.323] इन्द्रियेण ते रेतसा रेत आदद इति । [6.324] अरेता एव भवति ॥ बृह. ६,४.१० ॥ [6.325] अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् । [6.326] इन्द्रियेण ते रेतसा रेत आदधामीति । [6.327] गर्भिण्येव भवति ॥ ६,४.११ ॥ [6.328] अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् । [6.329] मम समिद्धेऽहौषीः । [6.330] प्राणापानौ त आददेऽसाविति । [6.331] मम समिद्धेऽहौषीः । [6.332] पुत्रपशूंस्त आददेऽसाविति । [6.333] मम समिद्धेऽहौषीः । [6.334] इष्टासुकृते त आददेऽसाविति । [6.335] मम समिद्धेऽहौषीः । [6.336] अशापराकाशौ त आददेऽसाविति । [6.337] स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति । [6.338] तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् । [6.339] उत ह्येवंवित्परो भवति ॥ बृह. ६,४.१२ ॥ [6.340] अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् । [6.341] अहतवासाः । [6.342] नैनां वृषलो न वृषल्यपहन्यात् । [6.343] त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६,४.१३ ॥ [6.344] स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । [6.345] ईश्वरौ जनयितवै ॥ ६,४.१४ ॥ [6.346] अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । [6.347] ईश्वरौ जनयितवै ॥ ६,४.१५ ॥ [6.348] अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । [6.349] ईश्वरौ जनयितवै ॥ ६,४.१६ ॥ [6.350] अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । [6.351] ईश्वरौ जनयितवै ॥ बृह. ६,४.१७ ॥ [6.352] अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । [6.353] ईश्वरौ जनयितवाइ । [6.354] औक्षेण वार्षभेण वा ॥ ६,४.१८ ॥ [6.355] अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति । [6.356] हुत्वोद्धृत्य प्राश्नाति । [6.357] प्राश्येतरस्याः प्रयच्छति । [6.358] प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति [6.359] उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् । [6.360] सं जायां पत्या सहेति ॥ ६,४.१९ ॥ [6.361] अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् । [6.362] सा त्वमस्यमोऽहम् । [6.363] सामाहमस्मि ऋक्त्वम् । [6.364] द्यौरहं पृथिवी त्वम् । [6.365] तावेहि संरभावहै सह रेतो दधावहै । [6.366] पुंसे पुत्राय वित्तय इति ॥ बृह. ६,४.२० ॥ [6.367] अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । [6.368] तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि [6.369] विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । [6.370] आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । [6.371] गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । [6.372] गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६,४.२१ ॥ [6.373] हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । [6.374] तं ते गर्भं हवामहे दशमे मासि सूतये । [6.375] यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी । [6.376] वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६,४.२२ ॥ [6.377] सोष्यन्तीमद्भिरभ्युक्षति [6.378] यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । [6.379] एवा ते गर्भ एजतु सहावैतु जरायुणा । [6.380] इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । [6.381] तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ बृह. ६,४.२३ ॥ [6.382] जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति [6.383] अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे । [6.384] अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा । [6.385] मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । [6.386] यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् । [6.387] अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६,४.२४ ॥ [6.388] अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः । [6.389] अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति । [6.390] भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६,४.२५ ॥ [6.391] अथास्य नाम करोति वेदोऽसीति । [6.392] तदस्यैतद्गुह्यमेव नाम भवति ॥ बृह. ६,४.२६ ॥ [6.393] अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । [6.394] येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६,४.२७ ॥ [6.395] अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् । [6.396] सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति । [6.397] तं वा एतमाहुः अतिपिता बताभूः । [6.398] अतिपितामहो बताभूः । [6.399] परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन । [6.400] य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ बृह. ६,४.२८ ॥ [6.401] इति चतुर्थं ब्राह्मणम् ॥ [6.402] पञ्चमं ब्राह्मणम् [6.403] अथ वंशः । [6.404] पौतिमाषीपुत्रः कात्यायनीपुत्रात् । [6.405] कात्यायनीपुत्रो गौतमीपुत्रात् । [6.406] गौतमीपुत्रो भारद्वाजीपुत्रात् । [6.407] भारद्वाजीपुत्रः पाराशरीपुत्रात् । [6.408] पाराशरीपुत्र औपस्वस्तीपुत्रात् । [6.409] औपस्वस्तीपुत्रः पाराशरीपुत्रात् । [6.410] पाराशरीपुत्रः कात्यायनीपुत्रात् । [6.411] कात्यायनीपुत्रः कौशिकीपुत्रात् । [6.412] कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च । [6.413] वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च । [6.414] कापीपुत्रः ॥ बृह. ६,५.१ ॥ [6.415] आत्रेयीपुत्रात् । [6.416] आत्रेयीपुत्रो गौतमीपुत्रात् । [6.417] गौतमीपुत्रो भारद्वाजीपुत्रात् । [6.418] भारद्वाजीपुत्रः पाराशरीपुत्रात् । [6.419] पाराशरीपुत्रो वात्सीपुत्रात् । [6.420] वात्सीपुत्रः पाराशरीपुत्रात् । [6.421] पाराशरीपुत्रो वार्कारुनीपुत्रात् । [6.422] वार्कारुणीपुत्रो वार्कारुणीपुत्रात् । [6.423] वार्कारुणीपुत्र आर्तभागीपुत्रात् । [6.424] आर्तभागीपुत्रः शौङ्गीपुत्रात् । [6.425] शौङ्गीपुत्रः सान्कृतीपुत्रात् । [6.426] साङृतीपुत्र आलम्बायनीपुत्रात् । [6.427] आलम्बायनीपुत्र आलम्बीपुत्रात् । [6.428] आलम्बीपुत्रो जायन्तीपुत्रात् । [6.429] जायन्तीपुत्रो माण्डूकायनीपुत्रात् । [6.430] माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । [6.431] माण्डूकीपुत्रः शाण्डिलीपुत्रात् । [6.432] शाण्डिलीपुत्रो राथीतरीपुत्रात् । [6.433] राथीतरीपुत्रो भालुकीपुत्रात् । [6.434] भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । [6.435] क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् । [6.436] वैदभृतीपुत्रः कार्शकेयीपुत्रात् । [6.437] कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् । [6.438] प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् । [6.439] साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः । [6.440] प्राश्नीपुत्र आसुरायणात् । [6.441] आसुरायण आसुरेः । [6.442] आसुरिः। बृह. ६,५.२ ॥ [6.443] याज्ञवल्क्यात् । [6.444] याज्ञवल्क्य उद्दालकात् । [6.445] उद्दालकोऽरुणात् । [6.446] अरुण उपवेशेः । [6.447] उपवेशिः कुश्रेः । [6.448] कुश्रिर्वाजश्रवसः । [6.449] वाजश्रवा जीह्वावतो बाध्योगात् । [6.450] जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् । [6.451] असितो वार्षगणो हरितात्कश्यपात् । [6.452] हरितः कश्यपः शिल्पात्कश्यपात् । [6.453] शिल्पः कश्यपः कश्यपान्नैध्रुवेः । [6.454] कश्यपो नैध्रुविर्वाचः । [6.455] वागम्भिण्याः । [6.456] अम्भिण्यादित्यात् । [6.457] आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ बृह. ६,५.३ ॥ [6.458] समानमा साञ्जीवीपुत्रात् । [6.459] सञ्जिवीपुत्रो माण्डूकायनेः । [6.460] माण्डूकायनिर्माण्डव्यात् । [6.461] माण्डव्यः कौत्सात् । [6.462] कौत्सो माहित्थेः । [6.463] माहित्थिर्वामकक्षायणात् । [6.464] वामकक्षायणः शाण्डिल्यात् । [6.465] शाण्डिल्यो वात्स्यात् । [6.466] वात्स्यः कुश्रेः । [6.467] कुश्रिर्यज्ञवचसः राजस्तम्बायनात् । [6.468] यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् । [6.469] तुरः कावषेयः प्रजापतेः । [6.470] प्रजापतिर्ब्रह्मणः । [6.471] ब्रह्म स्वयंभु । [6.472] ब्रह्मणे नमः ॥ बृह. ६,५.४ ॥ [6.473] इति पञ्चमं ब्राह्मणम् ॥ [6.474] इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥ [6.475] इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥