Mundaka Upanishad (Sanskrit) — The Upanishads ============================================= उपनिषद् Translation/edition: Sanskrit text Language: English Read in Plato Scroll: https://plato-scroll.com/s/upan-mundaka/ This file: https://plato-scroll.com/text/upan-mundaka-b.txt Other editions of this work: - F. Max Müller (1879–84): https://plato-scroll.com/text/upan-mundaka.txt Sources and licences: https://plato-scroll.com/attribution.html Numbers in [brackets] are the edition's reference loci (Stephanus, Bekker, book.line, page...). Superscript numerals refer to the Notes at the end. [1] ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । [2] स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः । [3] स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । [4] स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । [5] ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ [6] ॥ ॐ ब्रह्मणे नमः ॥ [7] ॥ प्रथममुण्डके प्रथमः खण्डः ॥ [8] ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता [9] भुवनस्य गोप्ता । [10] स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय [11] ज्येष्ठपुत्राय प्राह ॥ १.१.१ ॥ [12] अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं [13] पुरोवाचाङ्गिरे ब्रह्मविद्याम् । [14] स भारद्वाजाय सत्यवाहाय प्राह [15] भारद्वाजोऽङ्गिरसे परावराम् ॥ १.१.२ ॥ [16] शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । [17] कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ १.१.३ ॥ [18] तस्मै स होवाच । [19] द्वे विद्ये वेदितव्ये इति ह स्म [20] यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ १.१.४ ॥ [21] तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः [22] शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । [23] अथ परा यया तदक्षरमधिगम्यते ॥ १.१.५ ॥ [24] यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- [25] मचक्षुःश्रोत्रं तदपाणिपादम् । [26] नित्यं विभुं सर्वगतं सुसूक्ष्मं [27] तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ १.१.६ ॥ [28] यथोर्णनाभिः सृजते गृह्णते च [29] यथा पृथिव्यामोषधयः संभवन्ति । [30] यथा सतः पुरुषात् केशलोमानि [31] तथाऽक्षरात् संभवतीह विश्वम् ॥ १.१.७ ॥ [32] तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । [33] अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ १.१.८ ॥ [34] यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । [35] तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ १.१.९ ॥ [36] ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥ [37] ॥ प्रथममुण्डके द्वितीयः खण्डः ॥ [38] तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो [39] यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । [40] तान्याचरथ नियतं सत्यकामा एष वः [41] पन्थाः सुकृतस्य लोके ॥ १.२.१ ॥ [42] यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । [43] तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ १.२.२ ॥ [44] यस्याग्निहोत्रमदर्शमपौर्णमास- [45] मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । [46] अहुतमवैश्वदेवमविधिना हुत- [47] मासप्तमांस्तस्य लोकान् हिनस्ति ॥ १.२.३ ॥ [48] काली कराली च मनोजवा च [49] सुलोहिता या च सुधूम्रवर्णा । [50] स्फुलिङ्गिनी विश्वरुची च देवी [51] लेलायमाना इति सप्त जिह्वाः ॥ १.२.४ ॥ [52] एतेषु यश्चरते भ्राजमानेषु यथाकालं [53] चाहुतयो ह्याददायन् । [54] तं नयन्त्येताः सूर्यस्य रश्मयो यत्र [55] देवानां पतिरेकोऽधिवासः ॥ १.२.५ ॥ [56] एह्येहीति तमाहुतयः सुवर्चसः [57] सूर्यस्य रश्मिभिर्यजमानं वहन्ति । [58] प्रियां वाचमभिवदन्त्योऽर्चयन्त्य [59] एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ १.२.६ ॥ [60] प्लवा ह्येते अदृढा यज्ञरूपा [61] अष्टादशोक्तमवरं येषु कर्म । [62] एतच्छ्रेयो येऽभिनन्दन्ति मूढा [63] जरामृत्युं ते पुनरेवापि यन्ति ॥ १.२.७ ॥ [64] अविद्यायामन्तरे वर्तमानाः [65] स्वयं धीराः पण्डितं मन्यमानाः । [66] जङ्घन्यमानाः परियन्ति मूढा [67] अन्धेनैव नीयमाना यथान्धाः ॥ १.२.८ ॥ [68] अविद्यायां बहुधा वर्तमाना वयं [69] कृतार्था इत्यभिमन्यन्ति बालाः । [70] यत् कर्मिणो न प्रवेदयन्ति रागात् [71] तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ १.२.९ ॥ [72] इष्टापूर्तं मन्यमाना वरिष्ठं [73] नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । [74] नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं [75] लोकं हीनतरं वा विशन्ति ॥ १.२.१० ॥ [76] तपःश्रद्धे ये ह्युपवसन्त्यरण्ये [77] शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । [78] सूर्यद्वारेण ते विरजाः प्रयान्ति [79] यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ १.२.११ ॥ [80] परीक्ष्य लोकान् कर्मचितान् ब्रह्मणो [81] निर्वेदमायान्नास्त्यकृतः कृतेन । [82] तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् [83] समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १.२.१२ ॥ [84] तस्मै स विद्वानुपसन्नाय सम्यक् [85] प्रशान्तचित्ताय शमान्विताय । [86] येनाक्षरं पुरुषं वेद सत्यं प्रोवाच [87] तां तत्वतो ब्रह्मविद्याम् ॥ १.२.१३ ॥ [88] ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥ [89] ॥ द्वितीय मुण्डके प्रथमः खण्डः ॥ [90] तदेतत् सत्यं [91] यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः [92] सहस्रशः प्रभवन्ते सरूपाः । [93] तथाऽक्षराद्विविधाः सोम्य भावाः [94] प्रजायन्ते तत्र चैवापि यन्ति ॥ २.१.१ ॥ [95] दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । [96] अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २.१.२ ॥ [97] एतस्माज्जायते प्रणो मनः सर्वेन्द्रियाणि च । [98] खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ २.१.३ ॥ [99] अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ [100] दिशः श्रोत्रे वाग् विवृताश्च वेदाः । [101] वायुः प्रणो हृदयं विश्वमस्य पद्भ्यां [102] पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ २.१.४ ॥ [103] तस्मादग्निः समिधो यस्य सूर्यः [104] सोमात् पर्जन्य ओषधयः पृथिव्याम् । [105] पुमान् रेतः सिञ्चति योषितायां [106] बह्वीः प्रजाः पुरुषात् संप्रसूताः ॥ २.१.५ ॥ [107] तस्मादृचः साम यजूंषि दीक्षा [108] यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । [109] संवत्सरश्च यजमानश्च लोकाः [110] सोमो यत्र पवते यत्र सूर्यः ॥ २.१.६ ॥ [111] तस्माच्च देवा बहुधा संप्रसूताः [112] साध्या मनुष्याः पशवो वयांसि । [113] प्राणापानौ व्रीहियवौ तपश्च [114] श्रद्ध सत्यं ब्रह्मचर्यं विधिश्च ॥ २.१.७ ॥ [115] सप्त प्राणाः प्रभवन्ति तस्मात् [116] सप्तार्चिषः समिधः सप्त होमाः । [117] सप्त इमे लोका येषु चरन्ति प्राणा [118] गुहाशया निहिताः सप्त सप्त ॥ २.१.८ ॥ [119] अतः समुद्रा गिरयश्च सर्वेऽस्मात् [120] स्यन्दन्ते सिन्धवः सर्वरूपाः । [121] अतश्च सर्वा ओषधयो रसश्च [122] येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ २.१.९ ॥ [123] पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । [124] एतद्यो वेद निहितं गुहायां [125] सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ २.१.१० ॥ [126] ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥ [127] ॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥ [128] आविः संनिहितं गुहाचरं नाम [129] महत्पदमत्रैतत् समर्पितम् । [130] एजत्प्राणन्निमिषच्च यदेतज्जानथ [131] सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ २.२.१ ॥ [132] यदर्चिमद्यदणुभ्योऽणु च [133] यस्मिँल्लोका निहिता लोकिनश्च । [134] तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः [135] तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २.२.२ ॥ [136] धनुर्गृहीत्वौपनिषदं महास्त्रं [137] शरं ह्युपासा निशितं सन्धयीत । [138] आयम्य तद्भावगतेन चेतसा [139] लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ २.२.३ ॥ [140] प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । [141] अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ २.२.४ ॥ [142] यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं [143] मनः सह प्राणैश्च सर्वैः । [144] तमेवैकं जानथ आत्मानमन्या वाचो [145] विमुञ्चथामृतस्यैष सेतुः ॥ २.२.५ ॥ [146] अरा इव रथनाभौ संहता यत्र नाड्यः । [147] स एषोऽन्तश्चरते बहुधा जायमानः । [148] ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः [149] पाराय तमसः परस्तात् ॥ २.२.६ ॥ [150] यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । [151] दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ [152] मनोमयः प्राणशरीरनेता [153] प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । [154] तद् विज्ञानेन परिपश्यन्ति धीरा [155] आनन्दरूपममृतं यद् विभाति ॥ २.२.७ ॥ [156] भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । [157] क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ २.२.८ ॥ [158] हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । [159] तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ २.२.९ ॥ [160] न तत्र सूर्यो भाति न चन्द्रतारकं [161] नेमा विद्युतो भान्ति कुतोऽयमग्निः । [162] तमेव भान्तमनुभाति सर्वं [163] तस्य भासा सर्वमिदं विभाति ॥ २.२.१० ॥ [164] ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण । [165] अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ २.२.११ ॥ [166] ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥ [167] ॥ तृतीय मुण्डके प्रथमः खण्डः ॥ [168] द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । [169] तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ ३.१.१ ॥ [170] समाने वृक्षे पुरुषो निमग्नोऽ [171] नीशया शोचति मुह्यमानः । [172] जुष्टं यदा पश्यत्यन्यमीशमस्य [173] महिमानमिति वीतशोकः ॥ ३.१.२ ॥ [174] यदा पश्यः पश्यते रुक्मवर्णं [175] कर्तारमीशं पुरुषं ब्रह्मयोनिम् । [176] तदा विद्वान् पुण्यपापे विधूय [177] निरञ्जनः परमं साम्यमुपैति ॥ ३.१.३ ॥ [178] प्रणो ह्येष यः सर्वभूतैर्विभाति [179] विजानन् विद्वान् भवते नातिवादी । [180] आत्मक्रीड आत्मरतिः क्रियावा- [181] नेष ब्रह्मविदां वरिष्ठः ॥ ३.१.४ ॥ [182] सत्येन लभ्यस्तपसा ह्येष आत्मा [183] सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । [184] अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो [185] यं पश्यन्ति यतयः क्षीणदोषाः ॥ ३.१.५ ॥ [186] सत्यमेव जयते नानृतं [187] सत्येन पन्था विततो देवयानः । [188] येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा [189] यत्र तत् सत्यस्य परमं निधानम् ॥ ३.१.६ ॥ [190] बृहच्च तद् दिव्यमचिन्त्यरूपं [191] सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । [192] दूरात् सुदूरे तदिहान्तिके च [193] पश्यन्त्विहैव निहितं गुहायाम् ॥ ३.१.७ ॥ [194] न चक्षुषा गृह्यते नापि वाचा [195] नान्यैर्देवैस्तपसा कर्मण वा । [196] ज्ञानप्रसादेन विशुद्धसत्त्व- [197] स्ततस्तु तं पश्यते निष्कलं [198] ध्यायमानः ॥ ३.१.८ ॥ [199] एषोऽणुरात्मा चेतसा वेदितव्यो [200] यस्मिन् प्राणः पञ्चधा संविवेश । [201] प्राणैश्चित्तं सर्वमोतं प्रजानां [202] यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ३.१.९ ॥ [203] यं यं लोकं मनसा संविभाति [204] विशुद्धसत्त्वः कामयते यांश्च कामान् । [205] तं तं लोकं जयते तांश्च कामां- [206] स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ ३.१.१० ॥ [207] ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥ [208] ॥ तृतीयमुण्डके द्वितीयः खण्डः ॥ [209] स वेदैतत् परमं ब्रह्म धाम [210] यत्र विश्वं निहितं भाति शुभ्रम् । [211] उपासते पुरुषं ये ह्यकामास्ते [212] शुक्रमेतदतिवर्तन्ति धीराः ॥ ३.२.१ ॥ [213] कामान् यः कामयते मन्यमानः [214] स कामभिर्जायते तत्र तत्र । [215] पर्याप्तकामस्य कृतात्मनस्तु [216] इहैव सर्वे प्रविलीयन्ति कामाः ॥ ३.२.२ ॥ [217] नायमात्मा प्रवचनेन लभ्यो [218] न मेधया न बहुना श्रुतेन । [219] यमेवैष वृणुते तेन लभ्य- [220] स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३.२.३ ॥ [221] नायमात्मा बलहीनेन लभ्यो [222] न च प्रमादात् तपसो वाप्यलिङ्गात् । [223] एतैरुपायैर्यतते यस्तु विद्वां- [224] स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ३.२.४ ॥ [225] संप्राप्यैनमृषयो ज्ञानतृप्ताः [226] कृतात्मानो वीतरागाः प्रशान्ताः [227] ते सर्वगं सर्वतः प्राप्य धीरा [228] युक्तात्मानः सर्वमेवाविशन्ति ॥ ३.२.५ ॥ [229] वेदान्तविज्ञानसुनिश्चितार्थाः [230] संन्यासयोगाद् यतयः शुद्धसत्त्वाः । [231] ते ब्रह्मलोकेषु परान्तकाले [232] परामृताः परिमुच्यन्ति सर्वे ॥ ३.२.६ ॥ [233] गताः कलाः पञ्चदश प्रतिष्ठा [234] देवाश्च सर्वे प्रतिदेवतासु । [235] कर्माणि विज्ञानमयश्च आत्मा [236] परेऽव्यये सर्वे एकीभवन्ति ॥ ३.२.७ ॥ [237] यथा नद्यः स्यन्दमानाः समुद्रेऽ [238] स्तं गच्छन्ति नामरूपे विहाय । [239] तथा विद्वान् नामरूपाद्विमुक्तः [240] परात्परं पुरुषमुपैति दिव्यम् ॥ ३.२.८ ॥ [241] स यो ह वै तत् परमं ब्रह्म वेद [242] ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । [243] तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो [244] विमुक्तोऽमृतो भवति ॥ ३.२.९ ॥ [245] तदेतदृचाऽभ्युक्तम् । [246] क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः [247] स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । [248] तेषामेवैतां ब्रह्मविद्यां वदेत [249] शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ ३.२.१० ॥ [250] तदेतत् सत्यमृषिरङ्गिराः [251] पुरोवाच नैतदचीर्णव्रतोऽधीते । [252] नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ३.२.११ ॥ [253] ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥ [254] ॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥ [255] ॐ भद्रं कर्णेभिः ॥ [256] शान्तिः ॥ [257] ॥ ॐ शान्तिः शान्तिः शान्तिः ॥